शिव अष्टोत्तरशतनाम स्तोत्रं | Shiva Ashtottarshatnaam Stotram |


श्री शिवाष्टोत्तरशतनाम स्तोत्रं

शिव अष्टोत्तरशतनाम स्तोत्रं | Shiva Ashtottarshatnaam Stotram |
शिव अष्टोत्तरशतनाम स्तोत्र 

ॐ शिवो महेश्वरः शम्भुः पिनाकी शशिशेखरः |
वामदेवो विरूपाक्षः खट्वांगो विष्णुवल्लभः || १ ||

शङ्करः शूलपाणिश्च खट्वांगो विष्णुवल्लभः |
शिपिविष्टो अम्बिकानाथः श्रीकंठो भक्तवत्सलः || २ ||

भवः शर्वस्त्रिलोकेशः शितिकण्ठः शिवाप्रियः |
उग्रः कपाली कामारि: अंधकासुरसूदनः || ३ ||

गङ्गाधरो ललाटक्षः कालकालः कृपानिधिः |
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः || ४ ||

कैलासवासी कवची कठोरस्रीपुरान्तकः |
वृषांको वृषभारूढ़ो भस्मोद्धूलितविग्रहः || ५ ||

सामप्रियः स्वरमयः त्रयीमूर्तिर्नरीश्वरः |
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः || ६ ||

हविर्यज्ञमयः सोमः पञ्चवक्त्रः सदाशिवः |
विश्वेश्वरो वीरभद्रों गणनाथः प्रजापतिः || ७ ||

हिरण्यनेताः दुर्धर्षो गिरिशो गिरिशोनघः |
भुजङ्गभूषणो गर्भो गिरिधन्वा गिरिप्रियः || ८ ||

कृत्तिवासा पुरारार्तिर्भगवान प्रमथाधिपः |
मृत्युञ्जयः सूक्ष्मतनुः जगदव्यापी जगद्गुरुः || ९ ||

व्योमकेशो महासेनजनकश्चारुविक्रमः |
रुद्रो भूतपतिः स्थाणुः अहिर्बुध्न्यो दिगम्बरः || १० ||

अष्टमूर्तिरनेकात्मा सात्विकः शुद्धविग्रहः |
शाश्वतः खण्डपरशू रजः पश्विमोचनः || ११ ||

मृडः पशुपतिर्देवो महादेवाव्ययो हरिः |
पूषदंतभिदव्यग्रो दक्षाध्वरहरो हरः || १२ ||

भगनेत्रभिदव्यक्तः सहस्त्राक्षः सहस्त्रपात |
अपवर्गप्रदोनन्तस्तारकः परमेश्वरः || १३ ||

|| इति श्री शिवाष्टोत्तरशतनाम स्तोत्रं सम्पूर्णं ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post