सूर्योपनिषत | सूर्य अथर्वशीर्ष | Suryopnishad | Surya Atharvashirsham |


सूर्योपनिषत्

सूर्योपनिषत | सूर्य अथर्वशीर्ष | Suryopnishad | Surya Atharvashirsham |
 सूर्य अथर्वशीर्ष 


सूदितस्वातिरिक्तारिसूरिनन्दात्मभावितम् | 
सूर्यनारायणाकारं नौमि चित्सूर्यवैभवम् || 

ॐ भद्रं कर्णेभिः शृणुयाम देवाः | भद्रं पश्येमाक्षभिर्यजत्राः | 
स्थिरैरङ्गैस्तुष्टुवा("ङ्गु" यजुर्वेद के अनुसार ) सस्तनूभिर्व्यशेम देवहितं जदायुः || 

स्वस्ति न इन्द्रो वृद्धश्रवाः | स्वस्तिनः पूखा ( यजुर्वेद के अनुसार ) विश्ववेदाः | 
स्वस्ति नस्ताक्ष्र्यो अरिष्टनेमिः | स्वस्ति नो बृहस्पतिर्दधातु || 
ॐ शांतिः शांतिः शांतिः || 

हरिः ॐ अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः | 
ब्रह्माऋषिः | गायत्री छन्दः | आदित्यो देवता | 
हंसः सोऽहमग्निनारायणयुक्तं बीजम् | ह्यल्लेखा शक्तिः |
वियदादिसर्गयुक्तं कीलकम् | चतुर्विध पुरुषार्थ सिद्ध्यर्थे जपे विनियोगः |
षट्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितम् |
सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं
श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः |
ॐ भूर्भुवः सुवः | ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि | धियो योनः प्रचोदयात् |
सूर्य आत्मा जगतस्तस्थुषश्चं | सुर्याद्वै खल्विमानि | भूतानि जायन्ते |
सुर्याद्यज्ञः पर्जन्योऽन्नमात्मा नमस्त आदित्य |
त्वमेव प्रत्यक्षं कर्मकर्ताऽसि | त्वमेव प्रत्यक्षं ब्रह्माऽसि |
त्वमेव प्रत्यक्षं विष्णुऽरसि | त्वमेव प्रत्यक्षं रुद्रोऽसि |
त्वमेव प्रत्यक्षमृगसि | त्वमेव प्रत्यक्षं यजुरऽसि |
त्वमेव प्रत्यक्षं सामासि | त्वमेव प्रत्यक्षऽमथर्वासि |
त्वमेव सर्वं छन्दोऽसि | आदित्याद्वायुर्जायते |
आदित्याद्भूमिर्जायते | आदित्यादापो जायन्ते |
आदित्याज्ज्योतिर्जायते | आदित्याद्व्योम दिशो जायन्ते |
आदित्याद्देवा जायन्ते | आदित्या द्वेदा जायन्ते |
आदित्यो वा एष एतन्मण्डलं तपति | असावादित्यो ब्रह्म |
आदित्योऽन्त:करणमनोबुद्धिचित्ताहँकाराः | 
आदित्यो वै व्यानः समानोदानोऽपानः प्राणः |
आदित्यो वै श्रोत्रत्वक्क्रक्क्षूरसनघ्राणाः | आदित्यो वै वाक्पाणिपादपायूपस्थाः |
आदित्यो वै शब्दस्पर्शरुपरसगन्धाः | आदित्यो वै वचनादानागमनविसर्गानन्दाः |
आनंदमयो ज्ञानमयो विज्ञानानमय आदित्यः | नमो मित्राय भानवे मृत्योर्मा पाहि |
भ्राजिष्णवे विश्वहेतवे नमः | सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु |
सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च | 
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः | चक्षुर्धाता दधातु नः |
आदित्याय विद्महे सहस्त्रकिरणाय धीमहि | तन्नः सूर्यः प्रचोदयात् |
सविता पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् |
सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः |
ॐ इत्येकाक्षरं ब्रह्म | घृणिरिति द्वे अक्षरे | सूर्य इत्यक्षरद्वयम् | 
आदित्य इति त्रीण्यक्षराणि |
एतस्यैव सूर्यस्याष्टाक्षरो मनुः | 
यः सदाहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति |
सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते | 
अलक्ष्मीर्नश्यति | अभक्ष्यभक्षणात्पूतो भवति |
अगम्यागमनात्पूतो भवति | पतितसम्भाषणात्पूतो भवति | 
असत् संभाषणात्पूतो भवति | मध्याह्ने सुराभिमुखः पठेत् |
सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते | 
सैषां सावित्रीं विद्यां न किञ्चिदपि न कस्मैचित्प्रशंसयेत् |
य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते | पशुन्विन्दति | वेदार्थं लभते |
त्रिकालमेतज्जप्त्वा क्रतुशतफलमाप्नोति |
 यो हस्तादित्ये जपति स महामृत्युं तरति य एवं वेद ||
|| इत्युपनिषत् ||

ॐ भद्रं कर्णेभिः शृणुयाम देवाः | भद्रं पश्येमाक्षभिर्यजत्राः | 
स्थिरैरङ्गैस्तुष्टुवा("ङ्गु" यजुर्वेद के अनुसार ) सस्तनूभिर्व्यशेम देवहितं जदायुः || 

स्वस्ति न इन्द्रो वृद्धश्रवाः | स्वस्तिनः पूखा ( यजुर्वेद के अनुसार ) विश्ववेदाः | 
स्वस्ति नस्ताक्ष्र्यो अरिष्टनेमिः | स्वस्ति नो बृहस्पतिर्दधातु || 

ॐ शांतिः शांतिः शांतिः || 



karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post