महामृत्युञ्जय कवच | Mahamrityunjaya kavacham |


महामृत्युञ्जय कवच 

महामृत्युञ्जय कवच | Mahamrityunjaya kavacham |
महामृत्युञ्जय कवच

भगवान् भोलेनाथ का यह कवच अद्भुत है | 
सभी तरह से रक्षा करनेवाला है | 
इस कवच में न्यास विनियोग का प्रावधान है | 


विनियोग : 
ॐ अस्य श्री महामृत्युञ्जय कवचस्य श्रीभैरवऋषिः गायत्री छन्दः श्रीमृत्युञ्जय रुद्रोदेवता ॐ बीजं जूं शक्तिः सः कीलकं हौमिति तत्त्वं श्रीचतुर्वर्ग फल साधनाय पाठे विनियोगः | 

श्री भैरव ऋषये नमः शिरसि | 
गायत्री छन्दसे नमः मुखे | 
श्रीमृत्युञ्जय रूद्रदेवतायै नमः हृदये | 
ॐ बीजाय नमः गुह्ये | 
जूं शक्तये नमः पादयोः | 
सः कीलकाय नमः नाभौ | 
हौंतत्त्वाय नमः हृदि | 
विनियोगाय नमः सर्वाङ्गे | 

षडङ्गन्यास : 
ॐ हौं जूं सः अङ्गुष्ठाभ्यां नमः | 
ॐ हौं जूं सः तर्जनीभ्यां नमः | 
ॐ हौं जूं सः मध्यमाभ्यां नमः | 
ॐ हौं जूं सः अनामिकाभ्यां नमः | 
ॐ हौं जूं सः कनिष्ठिकाभ्यां नमः | 
ॐ हौं जूं सः करतलकरपृष्ठाभ्यां नमः | 

ॐ हौं जूं सः हृदयाय नमः | 
ॐ हौं जूं सः शिरसे स्वाहा | 
ॐ हौं जूं सः शिखायै वौषट | 
ॐ हौं जूं सः कवचाय हुम् | 
ॐ हौं जूं सः नेत्रत्रयाय वौषट | 
ॐ हौं जूं सः अस्त्राय फट | 

ध्यानं 
चन्द्रमण्डल मध्यस्थे रुद्रमाले विचित्रते | 
तत्रस्थं चिन्तयेत साध्यं मृत्यु प्राप्तोऽपि जीवति || 1 || 
 || कवचारम्भ || 
ॐ जूं सः हौं शिरः पातु देवो मृत्युञ्जयो मम | 
श्रीशिवो वै ललाटे च ॐ हौं भ्रुवौ सदाशिवः || 2 || 

नीलकण्ठोंऽवतान्नेत्रे कपर्द्दी मेवताच्छ्रुती | 
त्रिलोवनोऽवताद गण्डौ नासां में त्रिपुरान्तकः || 3 || 

मुखं पीयूषघटभृदौष्ठौ में कृत्तिकाम्बरः | 
हनुं में हाटकेशानो मुखं बटुकभैरवः || 4 || 

कन्धरां कालमथनो गलं गणप्रियोऽवतु | 
स्कन्धौ स्कंद्पिता पातु हस्तौ में गिरिशोऽवतु || 5 || 

नखां में गिरिजानाथः पायादंगुलिसंयुतान | 
स्तनौ तारापतिः पातुः वक्षः पशुपतिर्मम्  || 6 || 

कुक्षि कुबेरवरदः  पार्श्वौ  मे मारशासनः | 
शर्वः पातु तथा नाभिं शूली पृष्ठं ममावतु || 7  || 

शिश्नं  मे शङ्करः पातु गुह्यं गुह्यकवल्लभः  | 
कटिं कालान्तकः पायादूरु  मेऽन्धकघातकः || 8 ||

जागरुकोऽवताज्जानू  जङ्घे  मे कालभैरवः | 
गुल्फौ पायाज्जटाधारी  पादौ मृत्युञ्जयोवतु || 9 ||   

पादादिमूर्धपर्यन्तं सद्योजातो ममावतु | 
रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः || 10 || 

पूर्वं बलविकरणो दक्षिणे कालशासनः | 
पश्चिमे पार्वतीनाथ उत्तरे मां मनोन्मनः || 11 || 

ऐशान्यामीश्वरः पायादाग्नेय्यामग्निलोचनः | 
नैरृत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः || 12 || 

उर्ध्वे बलप्रमथनः पाताले परमेश्वरः | 
दश दिक्षु सदा महा मृत्युञ्जयश्च माम्  || 13 || 

रणे राजकुले द्यूते विषये प्राणसंशये | 
पायादों जूं महारुद्रो देवदेवो दशाक्षरः || 14 || 

प्रभाते पातु मां ब्रह्मा मध्याह्ने भैरवोऽवतु | 
सायं सर्वेश्वरः पातु निशायां नित्यचेतनः || 15 || 

अर्द्धरात्रे महादेवो निशान्ते मां महोदयः | 
सर्वदा सर्वतः पातु ॐ जूं सः हौं मृत्युञ्जयः || 16 || 

|| फलश्रुतिः || 
इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम्  | 
सर्वमन्त्रमयं गुह्यं सर्वतन्त्रेषु गोपितम || 17 || 

पुण्यं पुण्यप्रदं दिव्यं देवदेवाधिदैवतम् | 
य इदं च पठेन्मन्त्रं कवचं वाचयेत्ततः || 18 || 

तस्य हस्ते महादेवि त्र्यंबकस्याष्टसिद्धयः | 
रणे धृत्वा चरेद् युद्धं हत्वा शत्रून् जयं लभेत् || 19 || 

जयं कृत्वा गृहं देवि स प्राप्स्यति सुखं पुनः | 
महाभये महारोगे महामारी भये तथा || 20 || 
दुर्भिक्षे शत्रुसंहारे पठेत् कवचमादरेत् || 

|| इति श्री महामृत्युञ्जय कवचम् || 



           

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post