सुब्रह्मण्यषोडश नाम स्तोत्र | Subrahmanyam shodash naam stotram |

 

सुब्रह्मण्यषोडश नाम स्तोत्र 



सुब्रह्मण्यं प्रणाम्यहं सर्वज्ञं सर्वगं सदा | 
अभीप्सितार्थ सिद्ध्यर्थं प्रवक्ष्ये नाम षोडशम् || 
प्रथमो ज्ञानशक्त्यात्मा द्वितीयो स्कन्द एव च | 
अग्निभूश्च(भूतश्च) तृतीयस्स्यात् बाहुलेयश्चतुर्थकः || 

गांगेय: पञ्चमो विद्यात् षष्ठः शरवणोत्भव: | 
सप्तमः कार्तिकेयःस्यात् कुमारः स्यादथाष्टकः || 
नवमः षण्मुखश्चैव दशमः कुक्कुटध्वजः | 
एकादश: शक्तिधरो गुहो द्वादश एव च || 

त्रयोदशो ब्रह्मचारी षण्मातुर चतुर्दश: | 
क्रौञ्चभित् पंचदशकः षोडशः शिखिवाहनः || 
एतत् षोडशनामानि जपेत् सम्यक् सदादरम् | 
विवाहे दुर्गमे मार्गे दुर्जये च तथैव च || 

कवित्वे च महाशस्त्रे विज्ञानार्थी फलं लभेत् | 
कन्यार्थी लभते कन्या जयार्थी लभते जयम् || 
पुत्रार्थी पुत्रलाभश्च धनार्थी लभते धनम् | 
आयुआरोग्यवश्यश्च धनधान्य सुखावहम् || 

|| श्री शंकरसंहितायां शिवरहस्यखण्डे श्री सुब्रमण्यषोडशनामस्तोत्रम् सम्पूर्णम् || 
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post