लक्ष्मी सूक्त
![]()  | 
| लक्ष्मी सूक्त | 
सरसिजनिलये सरोजहस्ते धवलतरां शुकगन्धमाल्यशोभे | 
भगवति हरिवल्ल्भे मनोज्ञे त्रिभुवन भूतिकरि प्रसीद मह्यम् || 
धनंमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः | 
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्विनौ || 
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा | 
सोमं धनस्य सोमनो मह्यं ददातु सोमिनः || 
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः | 
 भवन्ति कृत पुण्यानां भक्तानां सूक्तंजापिनाम् || 
पद्मानने पद्मऊरू पद्माक्षि पद्मसम्भवे | 
तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम् || 
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् |
विष्णुप्रियां सखीं देवीं नमाम्यच्युत वल्ल्भाम् || 
महालक्ष्मी च विद्महे विष्णुपत्नीं च धीमहि |
 तन्नो लक्ष्मीः प्रचोदयात् || 
पद्मानने पद्मिनिपद्मपत्रे पद्मपत्रे पद्मप्रिये पद्मदलायताक्षि | 
विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्त्व || 
आनन्दः कर्दमः श्रीदश्चिक्लीत  इति विश्रुताः | 
ऋषयः श्रियपुत्राश्च मय श्रीर्देवी देवता || 
ऋणरोगादि दारिद्र्यं पापन्च अपमृत्युवः | 
भयशोकमनस्तापा नश्यन्तु मम सर्वदा || 
श्रीर्वर्चस्यमायुष्यमारोग्यमाविधाच्छोभमानं महीयते | 
धनंधान्यंपशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः || 
|| अस्तु || 
Tags:
Stotra
