ऋणमोचक मंगलस्तोत्रम् | Rin mochak mangal stotram |


 ऋणमोचक मंगलस्तोत्रम् 

ऋण मोचन मङ्गल स्तोत्र


इस स्तोत्र के नित्य कम से कम १० पाठ करे | 
यह स्तोत्र ऋण में से मुक्ति देता है | 
रोगो का विनाश करता है | 
दुःख दरिद्रता का विनाश करता है | 
संतान प्राप्ति में सहायता करता है | 

मंङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः | 

स्थिरासनो महाकायः सर्वकामविरोधकः || १ ||


लोहितो लोहिताक्षश्च सामगानां कृपाकरः | 

धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः || २ ||


अङ्गारको यमश्चैव सर्वरोगापहारकः |

 वृष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः || ३ ||


एतानि कूजनमानि नित्यं यः श्रद्धया पठेत् |

 ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयत् || ४ ||


धरणिगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् |

 कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् || ५ ||


स्तोत्रमङ्गारकस्यैतत्पठनियं सदां नृभिः | 

न तेषां भौमजा पीडा स्वल्पापि भवति क्वचित् || ६ || 


अङ्गारक महाभाग भगवन्भक्तवत्सल | 

त्वां नमामि मामाशेषमृणमाशु विनाशय || ७ ||


ऋणरोगादिदारिद्र्यं ये चान्ये चापमृत्यवः |

 भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा || ८ ||


अतिवक्रदुराराध्यभोगमुक्ताजितात्मनः |

 तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात् || ९ ||


विरिञ्चशक्रविष्णुनां मनुष्याणां तु का कथा |

 तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः || १० ||


पुत्रान् देहि धनं देहि त्वामस्मि शरणं गतः | 

ऋणदारिद्र्यदुःखेन शत्रूणां च भयात्ततः || ११ ||


एभीर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम् |

 महतीं श्रियमाप्नोति ह्यपरो धनदो युवा || १२ ||


|| इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं ऋणमोचक मङ्गलस्तोत्रं सम्पूर्णम् || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post