कश्यप कृत गणेश कवच | Kashyap Krut Ganesh Kavach |

 

कश्यप कृत गणेश कवच

कश्यप कृत गणेश कवच


|| गौर्यवाच ||

एषोऽतिचपलो बालो दैत्यान्हन्ति बहूनपि ||

अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम |

दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ||

अतोऽस्य कण्ठे किञ्चित्त्वं रक्षार्थं बद्धुमर्हसि |


|| मुनिरुवाच ||

गणेशकवचं वक्ष्ये सर्वरक्षाकरं नृणाम् |

ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे |

त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् |

द्वापरे तु गजाननं युगभुजं रक्ताङ्गरागं विभुम्

तुर्ये तु द्विभुजं सिताङ्गरुचिरं सर्वार्थदं सर्वदा ||


अस्य श्री गणपतीकवचस्य मुद्गल ऋषिः अनुष्टुप् छन्दः श्री महागणपतिर्देवता आत्मर क्षार्थं पाठे विनियोगः |

विनायकः शिखां पातु परमात्मा परात्परः |

अतिसुन्दरकायस्तु मस्तकं सुमहोत्कटः ||

ललाटं काश्यपः पातु भ्रूयुगं तु महोदरः |

नयने भालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ||

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः |

वाचं विनायकः पातु दन्तान्रक्षतु दुर्मुखः ||

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः |

गणेशस्तु मुखं कण्ठंपातु देवो गणञ्जयः ||

स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः |

हृदयं गणनाथस्तु हेरम्बो जठरं महान् ||

धराधरः पातु पार्श्वंपृष्ठं विघ्नहरः शुभः |

लिङ्गं  गुह्यं सदा पातु वक्रतुण्डो महाबलः ||

गणक्रीडो जानुजंधे ऊरु मंगलमूर्तिमान् |

 एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ||

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः |

अङ्गुलिश्च नखान्पातु पद्महस्तोऽरिनाशनः ||

सर्वाङ्गानि मयूरेशो विश्वव्यापी सदाऽवतु |

अनुक्तमपि यत्स्थानं  धूम्रकेतुः सदाऽवतु ||

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु |

प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ||

दक्षिणस्यामुमापुत्रो नैरॄत्यां तु गणेश्वरः |

प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ||

कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः |

दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्या सु विघ्नहृत् ||

राक्षसासुरवेतालग्रहभूतपिशाचतः |

पाशाङ्कुशधरः पातु रजः सत्त्वं तमः स्मृतिम् ||

ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं दयां कुलम् |

वपुर्धनं च धान्यं च गृहान्दारान्सुतान्सखीन् ||

सर्वायुधधरः पौत्रान्मयूरेशोऽवतात्सदा |

कपिलोऽजाविकं पातु गवाश्वं विकटोऽवतु ||


|| अथास्य फलश्रुतिः ||

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः | न भयं जायते तस्य यक्षरक्षः पिशाचतः ||

त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् | यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ||

युद्धकाले  पठेद्यस्तु विजयं प्राप्नुयाद् ध्रुवम् | मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ||

सप्तवारं पठेद्यस्तु दिनानामेकविंशतिम् | तत्तत्फलमवाप्नोति साधको नात्र संशयः ||

एकविंशतिवारं च पठेत्तावत् दिनानि यः | कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ||

राजदर्शनवेलायां पठेदेतत् त्रिवारतः | स राजानं वशं नीत्वा प्रकृतिं च सभां जयेत् ||

इदं गणेशकवचं मुद्गलेन समीरितम् | कश्यपाय च तेनाथ माण्डव्याय महर्षये ||

मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् | न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ||

सर्वरक्षाकरं सर्वमनःकामप्रपूरकम् | अनेनानस्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् ||

राक्षसासुरवेतालदैत्यदानवसंभवा | सर्वारिष्टानि नश्यन्ति कवचस्यास्य धारणात् ||


|| गणेश पुराणे गणेश कवच सम्पूर्णं ||

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post