ads

नक्षत्र शान्ति स्तोत्र | Nakshatra Shani Stotram |

 

नक्षत्र शान्ति स्तोत्र 

नक्षत्र शान्ति स्तोत्र 


कृत्तिका परमा देवी रोहिणी रुचिरानना || १ || 

श्रीमान् मृगशिरा भद्रा आर्द्रा च परमोज्ज्वला | 
पुनर्वसुस्तथा पुष्य आश्र्लेषाऽथ महाबला || २ || 

नक्षत्रमातरो ह्येताःप्रभामालाविभूषिताः | 
महादेवाऽर्चने शक्ता महादेवाऽनुभावितः || ३ || 

पूर्वभागे स्थिता ह्येताः शान्तिं कुर्वन्तु में सदा | 
मघा सर्वगुणोपेता पूर्वा चैव तु फाल्गुनी || ४ || 

उत्तरा फाल्गुनी श्रेष्ठा हस्ता चित्रा तथोत्तमा | 
स्वाती विशाखा वरदा दक्षिणस्थानसंस्थिताः || ५ || 

अर्चयन्ति सदाकालं देवं त्रिभुवनेश्वरम् | 
नक्षत्रमारो ह्येतास्तेजसापरिभूषिताः || ६ || 

ममाऽपि शान्तिकं नित्यं कुर्वन्तु शिवचोदिताः | 
अनुराधा तथा ज्येष्ठा मूलमृद्धिबलान्वीतम् || ७ || 

पूर्वाषाढा महावीर्या आषाढा चोत्तरा शुभा | 
अभिजिन्नाम नक्षत्रं श्रवणः परमोज्ज्वलः || ८ || 

एताः पश्चिमतो दिप्ता राजन्ते राजमूर्तयः | 
ईशानं पूजयन्त्येताः सर्वकालं शुभाऽन्विताः || ९ ||
 
मम शान्तिं प्रकृर्वन्तु विभूतिभिः समन्विताः | 
धनिष्ठा शतभिशा च पूर्वाभाद्रपदा तथा || १० || 

उत्तराभाद्ररेवत्यावश्विनी च महर्धिका | 
भरणी च महावीर्या नित्यमुत्तरतः स्थिताः || ११ 

शिवार्चनपरा नित्यं शिवध्यानैकमानसाः | 
शान्तिं कुर्वन्तु मे नित्यं सर्वकालं शुभोदयाः || १२ || 

|| इति नक्षत्रशान्तिस्तोत्रं सम्पूर्णम् ||   
 
 
नक्षत्र शान्ति स्तोत्र | Nakshatra Shani Stotram | नक्षत्र शान्ति स्तोत्र | Nakshatra Shani Stotram | Reviewed by karmkandbyanandpathak on 5:48 AM Rating: 5

No comments:

Powered by Blogger.