सरस्वती द्वादश नाम स्तोत्र | Saraswati Dwadash Naam Stotram |

 

सरस्वती द्वादश नाम स्तोत्र

सरस्वती द्वादश नाम स्तोत्र

सरस्वती त्वयं दृष्ट्या वीणापुस्तकधारिणीम् |
हंसवाहसमायुक्तां विद्यादानकरीं मम || १ ||

प्रथमं भारती नाम द्वितीयं च सरस्वती |
तृतीयं शारदा देवी चतुर्थं हंसवाहिनी || २ ||

पश्चमं जगति ख्याता षष्ठं वाणीश्वरी तथा |
कौमारी सप्तमं प्रोक्ता अष्टमं ब्रह्मचारिणी || ३ ||

नवमं बुद्धिदात्री च दशमं वरदायिनी |
एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी || ४ ||

ब्राह्मी द्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः |
सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी |
सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती || ५ ||

|| इति सरस्वती द्वादश नाम स्तोत्रं सम्पूर्णम् ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post