लघु विष्णुसहस्त्र नाम | Laghu vishnu sahastra paath |

 

लघु विष्णुसहस्त्र नाम

लघु विष्णुसहस्त्र नाम 



अलं नामसहस्रेण केशवोऽर्जुनमब्रवित् |
श्रुणु में पार्थ नामानि यैश्चतुष्यामि सर्वदा || १ ||

केशवः पुण्डरीकाक्षः स्वयंभूर्मधुसूदनः |
दामोदरो हृषीकेशः पद्मनाभो जनार्दनः || २ ||

विष्वक्सेनो वासुदेवो हरिर्नारायणस्तथा |
अनंतश्च प्रबोधश्च सत्यः कृष्णः सुरोत्तमः || ३ ||

आदिकर्ता वराहश्च वैकुण्ठो विष्णुरच्युतः |
श्रीधरः श्रीपतिः श्रीमान् पक्षिराजध्वजस्तथा || ४ ||

एतानि मम नामानि विद्यार्थी ब्राह्मणः पठेत् |
क्षत्रियो विजयस्यार्थे वैश्यो धनसमृद्धये || ५ ||

नाग्निराजभयं तस्य न चोरात् पन्नगाद्भयम् |
राक्षसेभ्यो भयं नास्ति व्याधिभिर्नैव पीड्यते || ६ ||

इदं नामसहस्त्रं तु केशवेनोद्धृतं स्तवम् |
उद्धृत्य चार्जुने दत्तं युद्धे शत्रुविनाशनम् || ७ ||

|| इति श्री विष्णुपुराणे लघु विष्णुसहस्त्रनामस्तवः ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post