ads

अष्टाध्यायी रुद्री न्यास | Ashtadhyayi Rudri |

 

अष्टाध्यायी रुद्री न्यास विधि 

अष्टाध्यायी रुद्री न्यास


१. ॐ मनोजूतिरिति मन्त्रस्य बृहस्पतिरृषिः, 

बृहती छन्दः, बृहस्पतिर्देवता हृदयन्यासे विनियोगः | 

ॐ  मनोजूतिर्ज्जुषतामाज्ज्यस्यबृहस्प्पतिर्य्यज्ञमिमन्तनोत्वरिष्ट्टं 

य्यज्ञङ्गुसमिमन्दधातु | व्विश्श्वेदेवासऽइहमाँदयन्तामोँ३प्रतिष्ठ्ठ || 

ॐ हृदयाय नमः | 


२. ॐ अबोद्ध्यग्नि रिति मन्त्रस्य बुधगविष्ठिरा ऋषिः, 

त्रिष्टुप् छन्दः, अग्निर्देवता, शिरोन्यासे विनियोगः | 

ॐ अर्बोद्ध्यग्नि: समिधाजनानाम्प्रतिधेनुवायतीमुषासम् | 

जह्व्वा इवप्प्रवयामुज्जिहानाःप्प्रभानवः सिस्त्रनेकामच्छ || 

ॐ शिरसे स्वाहा || 


३. ॐ मूर्द्धानमिति मन्त्रस्य भरद्वाजऋषिः,

 त्रिष्टुप् छन्दः, अग्निर्देवता, शिखान्यासे विनियोगः | 

ॐ मूर्द्धानन्दिवोऽअरतिम्पृथिव्व्याव्वैश्श्वानरमृतऽआजातमग्निम् |

कविङ्गु  सम्म्राजमतिथिंजनानामासन्नापात्रञ्जयन्तदेवाः || 

ॐ शिखायै वषट् || 


४. ॐ मर्माणिते इति मन्त्रस्य अप्रतिरथऋषिः, 

विराट्छन्दः, मर्म्माणि देवता, कवचन्यासे विनियोगः | 

ॐ मर्म्माणितेव्वर्म्मणाच्छादयामिसोमस्त्वाराजामृतेनानुवस्ताम् | 

उरोर्व्वरीयोव्वरुणस्तेकृणोतुजयन्तन्त्वानुदेवामदन्तु || 

ॐ कवचाय हुम् || 


५. ॐ व्विश्श्वतश्चक्षु रिति मन्त्रस्य विश्वकर्माभौवनऋषिः,

 त्रिष्टुप् छन्दः, विश्वकर्मा देवता, नेत्रन्यासे विनियोगः | 

ॐ व्विश्श्वतश्चक्षुरुतव्विश्श्वतोमुखोव्विश्श्वतोबाहुरुतव्विश्श्वतस्पात् | 

सम्बाहुब्भ्यान्धमतिसम्पतत्त्रैर्द्यावाभूमीजनयन्देवऽएक: || 


ॐ नेत्रत्रयाय वौषट् || 

६. ॐ मानस्तोके इति मन्त्रस्य परमेष्ठी ऋषिः, जगती छन्दः,

 एको रुद्रो देवता, अस्त्रन्यासे विनियोगः | 

मानेस्तोकेतनेयेमानऽआयुषिमानोगोषुमानोऽअश्श्वेषुरीरिष: | 

मानोव्वीरान्न्रुद्राभामिनोव्वधीर्हविष्म्मन्तः सद्मित्त्वाहवामहे || 

ॐ अस्त्राय फट् || 


|| अस्तु || 

    

अष्टाध्यायी रुद्री न्यास | Ashtadhyayi Rudri | अष्टाध्यायी रुद्री न्यास | Ashtadhyayi Rudri | Reviewed by karmkandbyanandpathak on 3:36 AM Rating: 5

No comments:

Powered by Blogger.