संकट नाशन गणपति स्तोत्र | Sankat nashan ganpati stotra |

 

संकट नाशन गणपति स्तोत्र

संकट नाशन गणपति स्तोत्र


|| श्री नारद उवाच ||

प्रणम्य शिरसा देवं गौरी पुत्रं विनायकम् |
भक्तावासं स्मरेन्नित्यं आयुः कामार्थसिद्धये ||

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् |
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकं ||

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च |
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टमं ||

नवमं भालचन्द्रं च दशमं तु विनायकं |
एकादशं गणपतिं द्वादशं तु गजाननम् ||

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः |
न च  विघ्नभयं तस्य सर्वसिद्धिकरं परम् ||

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् |
पुत्रार्थी लभते पुत्रां मोक्षार्थी लभते गतिम् ||

जपेद्गणपति स्तोत्रं षड्भिर्मासैः फलं लभेत् |
संवत्सरेण सिद्धिं च लभते नात्र संशयः ||

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् |
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ||

|| इति श्री नारदपुराणे संकटनाशन गणपति स्तोत्रं सम्पूर्णं ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post