पितृ गाथा | पितृ स्तोत्र | Pitru gatha |


पितृ गाथा 

पितृ गाथा


इमाश्च पितरो देवा गाथा गायन्ति योगिनः | 
पुरतो यदुसिंहस्य ह्यमोघस्य तपस्विनः || 

अपि नः स्वकुले कश्चिद् विष्णुभक्तो भविष्यति | 
हरिमन्दिरकर्ता यो भविष्यति शुचिव्रतः || 

अपि नः संततौ जायेद् विष्णवालय विलेपनः | 
संमार्जनं व धर्मात्मा करिष्यति च भक्तितः || 

अपि नः संततौ जातो ध्वजं केशवमंदिरे | 
दास्यते देवदेवाय दिपं पुष्पानुलेपनम् || 

अपि नः स्वकुले भूयाद् एकादश्यां हि यो नरः | 
करिष्यति उपवासं च सर्वपातकहानीदम् || 

महापातक युक्तो वा पातकी चोपपातकी | 
विमुक्तपापो भवति विष्ण्वावसथ चित्रकृत् || 

|| इति श्री वामनपुराणे श्री पितृ गाथा सम्पूर्णा || 

 
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post