अन्धककृत शिव स्तुतिः | Andhak kruta Shivstuti |


अन्धककृत शिव स्तुतिः  

अन्धककृत शिव स्तुतिः 


कृत्स्त्रस्य योऽस्य जगतः सचराचरस्य कर्ता कृतस्य च तथा सुखदुःख़हेतुः | 
संहारहेतुरपि यः पुनरन्तकाले तं शङ्करं शरणदं शरणं व्रजामि || १ || 

यं योगिनो विगतमोहतमोरजस्का भक्त्यैकतानमनसो विनिवृत्तकामाः | 
ध्यायन्ति निश्चलधियोऽमितदिव्यभावं तं शङ्करं शरणदं शरणं व्रजामि || २ || 

यश्चेन्दुखण्डममलं विलसन्मयूखं बद्ध्वा सदा प्रियतमां शिरसा बिभर्ति | 
यश्चार्धदेहमददाद् गिरिराजपुत्र्यै तं शङ्करं शरणदं शरणं व्रजामि || ३ || 

योऽयं सकृद्विमलचारुविलोलतोयां गङ्गां महोर्मिविषमां गगनात् पतन्तीम् | 
मूर्ध्नाऽददे स्रजमिव प्रतिलोलपुष्पां तं शङ्करं शरणदं शरणं व्रजामि || ४ || 

कैलासशैलशिखरं प्रतिकम्प्यमानं कैलासशृङ्गसदृशेन दशाननेन | 
यः पादपद्मपरिवादनमादधान स्तं शङ्करं शरणदं शरणं व्रजामि || ५ || 

येनासकृद् दितिसुताः समरे निरस्ता विद्याधरोरगगणाश्च वरैः समग्राः | 
संयोजित मुनिवराः फलमूलभक्षा स्तं शङ्करं शरणदं शरणं व्रजामि || ६ || 

दग्ध्वाध्वरं च नयने च तथा भगस्य पूष्णस्तथा दशनपंक्तिमपातयच्च | 
तस्तम्भ यः कुलिशयुक्तमहेन्द्रहस्तं तं शङ्करं शरणदं शरणं व्रजामि || ७ || 

एनस्कृतोऽपि विषयेष्वपि सक्तभावा ज्ञानान्वयश्रुतगुणैरपि नैव युक्ताः | 
यं संश्रिताः सुखभुजः पुरुषा भवन्ति तं शङ्करं शरणदं शरणं व्रजामि || ८ || 

अत्रिप्रसूतिरविकोटिसमानतेजाः संत्रासनं विबुधदानवसत्तमानाम् | 
यः कालकूटमपिबत् समुदीर्णवेगं तं शङ्करं शरणदं शरणं व्रजामि || ९ || 

ब्रह्मेन्द्ररुद्रमरुतां च सषण्मुखानां योऽदाद् वरांश्च बहुशो भगवान् महेशः | 
नन्दिं च मृत्युवदनात् पुनरुज्जहार तं शङ्करं शरणदं शरणं व्रजामि || १० || 

आराधितः सुतपसा हिमवन्निकुञ्जे धूम्रव्रतेन मनसाऽपि परैगम्यः | 
सञ्जीवनी समददाद् भृगवे महात्मा तं शङ्करं शरणदं शरणं व्रजामि || ११ || 

नानाविधैर्गजबिडालसमानवक्त्रै र्दक्षाध्वरप्रमथनैर्बलिभिर्गणौघैः | 
योऽभ्यर्च्यतेऽमरगणैश्च सलोकपालै स्तं शङ्करं शरणदं शरणं व्रजामि || १२ || 

क्रीडार्थमेव भगवान् भुवनानि सप्त नानानदीविहगपादपमण्डितानि | 
सब्रह्मकानि व्यसृजत् सुकृताहितानि तं शङ्करं शरणदं शरणं व्रजामि || १३ || 

यस्याखिलं जगदिदं वशवर्ति नित्यं योऽष्टाभिरेव तनुभिर्भुवनानि भुङ्क्ते | 
यः कारणं सुमहतामपि कारणानां तं शङ्करं शरणदं शरणं व्रजामि || १४ || 

शङ्खेन्दुकुन्दधवलं वृषभप्रवीर मारुह्य यः क्षितिधरेन्द्रसुतानुयातः | 
यात्यम्बरे हिमविभूतिविभूषिताङ्ग स्तं शङ्करं शरणदं शरणं व्रजामि || १५ || 

शान्तं मुनिं यमनियोगपरायणं तै र्भीमैर्यमस्य पुरुषैः प्रतिनियमानम् | 
भक्त्या नतं स्तुतिपरं प्रसभं ररक्ष तं शङ्करं शरणदं शरणं व्रजामि || १६ || 

यः सव्यपाणिकमलाग्रनखेन देव स्तत् पञ्चमं प्रसभमेव पुरः सुराणाम् | 
ब्राह्मं शिरस्तरुणपद्मनिभं चकर्त तं शङ्करं शरणदं शरणं व्रजामि || १७ || 

यस्य प्रणम्य चरणो वरदस्य भक्त्या स्तुत्वा च वाग्भिरमलाभिरतन्द्रिताभिः | 
दीत्पैस्तमांसि नुदते स्वकरैर्विवस्वां स्तं शङ्करं शरणदं शरणं व्रजामि || १८ || 

|| इति श्री स्कन्दमहापुराणे अवन्तीखण्डे अन्धककृत शिवस्तुतिः सम्पूर्णम् ||       
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post