ads

अनादिकल्पेश्वर स्तोत्र | Anadikalpesvar Stotra |

 

अनादिकल्पेश्वर स्तोत्र

अनादिकल्पेश्वर स्तोत्र


कर्पूरगौरो भुजगेन्द्रहारो गङ्गाधरो लोकहितावहः सः | 
सर्वेश्वरो देववरोऽप्यघोरो योऽनादिकल्पेश्वर एव सोऽसौ || १ || 

कैलासवासी गिरिजाविलासी श्मशानवासी सुमनोनिवासी | 
काशीनिवासी विजयप्रकाशी योऽनादिकल्पेश्वर एव सोऽसौ || २ || 

त्रिशूलधारी भवदुःखहारी कन्दर्पवैरी रकनीशधारी | 
कपर्दधारी भजकानुसारी योऽनादिकल्पेश्वर एव सोऽसौ || ३ || 

लोकाधिनाथः प्रमथाधिनाथः कैवल्यनाथः श्रुतिशास्त्रनाथः | 
विद्यार्थनाथः पुरुषार्थनाथो योऽनादिकल्पेश्वर एव सोऽसौ || ४ || 

लिङ्गं परिच्छेत्तुमधोगतस्य नारायणश्चोपरि लोकनाथः | 
बभूवतुस्तावपि नो सामार्थौ योऽनादिकल्पेश्वर एव सोऽसौ || ५ || 

यं रावणस्ताण्डवकौशलेन गीतेन चातोषयदस्य सोऽत्र | 
कृपाकटाक्षेण समृद्धिमाप योऽनादिकल्पेश्वर एव सोऽसौ || ६ || 

सकृच्च बाणोऽवनमय्यशीर्षं यस्याग्रतः सोप्यलभत्समृद्धिम् | 
देवेन्द्रसम्पत्त्यधिकां गरिष्ठां योऽनादिकल्पेश्वर एव सोऽसौ || ७ || 

गुणान्विमातुं न समर्थ एष वेषश्च जीवोऽपि विकुण्ठितोऽस्य | 
श्रुतिश्च नूनं चलितं बभाषेयोऽनादिकल्पेश्वर एव सोऽसौ || ८ || 

अनादिकल्पेश उमेश एतत् स्तवाष्टकं यः पठति त्रिकालम् | 
स धौतपापोऽखिललोकवन्द्यं शैवं पदं यास्यति भक्तिमांश्चेत् || ९ || 

|| इति श्री वासुदेवानन्दसरस्वतीकृतमनादिकल्पेश्वर स्तोत्र सम्पूर्ण || 
अनादिकल्पेश्वर स्तोत्र | Anadikalpesvar Stotra | अनादिकल्पेश्वर स्तोत्र | Anadikalpesvar Stotra | Reviewed by karmkandbyanandpathak on 3:04 PM Rating: 5

No comments:

Powered by Blogger.