श्री देव्याः प्रातः स्मरणम्

 

श्री देव्याः प्रातः स्मरणम् 

श्री देव्याः प्रातः स्मरणम् 


प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां 
सद्रत्नवन्मकरकुण्डलहारभूषाम् | 

दिव्यायुधोर्जितसुनीलसहस्त्रहस्तां 
रक्तोत्पलाभचरणां भवतीं परेशाम् || १ || 

प्रातर्नमामि महिषासुरचण्डमुण्ड 
शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् | 

ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां           
चण्डीं समस्तसुरमूर्तिमनेकरुपाम् || २ || 

प्रातर्भजामि भजतामभिलाषदात्रीं 
धात्रीं समस्तजगतां दुरिपात्रहन्त्रीम् | 

संसारबन्धनविमोचनहेतुभूतां 
मायां परां समधिगम्य परस्य विष्णोः || ३ || 

|| इति श्री देव्याः प्रातःस्मरणं सम्पूर्णम् || 
  
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post