ads

महाविद्या कवच | Mahavidhya Kavach |

 

महाविद्या कवच
महाविद्या कवच

शृणु देविप्रवक्ष्यामि कवचं सर्वसिद्धिदम् | 
आद्याया महाविद्यायाः सर्व्वाभीष्टफलप्रदम् || 

कवचस्य ऋषिर्देवि सदाशिव इतीरितः | 
छन्दोऽनुष्टुप देवता च महाविद्या प्रकीर्तिता || 
धर्मार्थकाममोक्षाणां विनियोगश्च साधने || 

ऐंकारः पातु शीर्षें मां कामबीजं तथा हृदि | 
रमाबीजं सदा पातु नाभौ गुह्ये च पादयोः || 

ललाटे सुन्दरी पातु उग्रा मां कण्ठदेशतः | 
भगमाला सर्व्वगात्रे लिंगे चैतन्यरुपिणी || 

पूर्वे माँ पातु वाराही ब्रह्माणी दक्षिणे तथा | 
उत्तरे वैष्णवी पातु चेन्द्राणी पश्चिमेऽवतु || 

माहेश्वरी च आग्नेय्यां नैऋते कमला तथा | 
वायव्यां पातु कौमारी चामुण्डा हीशकेऽवतु || 

इदं कवचमज्ञात्वा महाविद्याञ्च यो जपेत् | 
न फलं जायते तस्य कल्पकोटिशतैरति || 

|| अस्तु || 
  
महाविद्या कवच | Mahavidhya Kavach | महाविद्या कवच | Mahavidhya Kavach | Reviewed by karmkandbyanandpathak on 11:07 AM Rating: 5

No comments:

Powered by Blogger.