श्री दत्तस्तोत्रम् | श्री Datta Stotra |

 

श्री दत्तस्तोत्रम्

श्री दत्तस्तोत्रम्


गिरनारगिरौ रम्ये पादुकारुपिणं विभुम् |
दत्तात्रेयमहं वन्दे भुक्तिमुक्तिप्रदायकम् || १ ||

गोरक्षगर्वहन्तारं नवनाथपरिष्टुतम् |
योगिध्येयं योगगम्यं योगैश्वर्यविभूषितम् || २ ||

जटाधरं जागरुकं कालकालं महानलम् |
भवरोगहरं शर्वं सिद्धवृन्दैः सुसेवितम् || ३ ||

भक्तकामैककल्पद्रुं भक्तचिन्तैकवाहकम् |
भक्तभावैकभोक्तारं भक्तलज्जैकरक्षकम् || ४ ||

हर्तारं सर्वदुःखानां दातारं सर्वसम्पदाम् |
भर्तारं स्वात्मभक्तानां गोप्तारं सर्वसंकटात् || ५ ||

विश्वात्मानं विश्वरुपं निरुपं दिव्यरुपकम् |
अनिकेतं विश्वकेतं सच्चिदानन्दविग्रहम् || ६ ||

द्वैताद्वैतविनिर्मुक्तं निर्द्वन्द्वं निष्परिग्रहम् |
नानारुपधरं वेद्यं वेद्यावेद्यपरं हरम् || ७ ||

कारुण्याब्धिं कलासारं शिवं सत्यैकसुन्दरम् |
कल्याणैकपरं देवं स्थाणुरुपं सुनिर्मलम् || ८ ||

भवरोगनिहन्तारम् अवधूतं दिगम्बरम् |
सर्वदेवमयं शान्तं रङ्ग रङ्गनिवर्तकम् || ९ ||

दत्तस्तोत्रमिदं दत्त दत्तचित्तेन यः पठेत् |
दत्तः स्वात्मैव तस्मै स्यादत्रये विभुना यथा || १० ||

|| इति श्री दत्तपादारविन्दमिलिन्दब्रह्मचारिपाण्डुरङ्ग महाराजविरचितं दत्तस्तोत्रं सम्पूर्णम् ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post