श्री दत्त मन्त्र गर्भश्रीपाद स्तोत्रम् | Dattmantra Garbh Shreepad Stotram |

 

दत्तमन्त्रगर्भश्रीपाद स्तोत्रम्

श्री दत्त मन्त्र गर्भश्रीपाद स्तोत्रम्


दत्तात्रेयो दयासिन्धुर्दिव्यदृष्टिर्दमप्रियः |
हरीर्हारी हिरण्याभः श्रीपादः शरणं मम || १ ||

कृष्णः कमलपत्राक्षः कर्पूराभः कलिक्षतिः |
उन्मत्त उडुपाध्यक्ष उन्निद्र उरसि स्थितः || २ ||

आनन्ददायकश्चाप्त आर्तत्राणसुदीक्षितः |
दिगम्बरो दिव्यतेजा दाता द्रां बीजतोषितः || ३ ||

मुनिर्महामना मायी मन्त्रेशो मङ्गलप्रभुः |
बालो बालप्रियो बन्धुर्बलाहकद्युतिर्बलिः || ४ ||

पिशाचः पांसुलिप्ताङ्गः पुण्याकृष्टः पुमान् परः |
ज्ञानसागरज्ञप्त्यात्मा ज्ञराड् ज्ञानिजनप्रियः || ५ ||

व्दिचत्वारिंशदेतानि नामानि श्रीपादः प्रभोः |
प्रतिश्वासे पठन्मर्त्यो रङ्गमुक्तो भवेदरम् || ६ ||

|| इति श्री दत्तपादारविन्दमिलिन्दब्रह्मचारिपान्डुरङ्ग महाराजविरचितं 
दत्तमन्त्रगर्भश्रीपादस्तोत्रं सम्पुर्णम् ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post