दत्त षोडशावतारस्तोत्रम् | Datt Shodashavatar Stotra |

 

दत्त षोडशावतारस्तोत्रम्

दत्त षोडशावतारस्तोत्रम्


प्रणम्य सद्गुरुं देवं वासुदेवं त्र्यधीश्वरम् |
दत्ताविर्भावनामानि क्रमशः षोडश ब्रुवे || १ ||

प्रथमं योगिराजं च ततोऽत्रिवरदं पुनः |
दत्तात्रेयं तृतीयं च कालग्निशमनं ततः || २ ||

योगीजनवल्लभं स्यात् पञ्चमं योगिनां प्रियम् |
लिलाविश्वम्भरं षष्ठं सिद्धर्षिगणवन्दितम् || ३ ||

सप्तमं सिद्धराजं च ह्यष्टमं ज्ञानसागरम् |
विश्वम्भरावधूतं तु नवमं मुक्तिदं स्मृतम् || ४ ||

मायामुक्तावधूतं च दशमं परिकीर्तितम् |
मायायुक्तावधूतं हि प्रोक्तं ह्येकादशं पुनः || ५ ||

आदिगुरुं द्वादशं च शिवरूपं त्रयोदशम् |
देवदेवावतारं तू ज्ञानदं स्याच्चतुर्दशम् || ६ ||

दिगम्बरं पञ्चदशं भक्तदैन्यापहारकम् | 
श्यामकमललोचनं षोडशं चान्तिमं स्मृतम् || ७ ||

एतच्छोडशनामानि यः पठेच्छृयादपि |
त्रिकालं ह्येककालं वा स सर्वत्र सुखी भवेत् || ८ ||

धर्मार्थी धर्ममाप्नोति ह्यर्थार्थी चार्थमाप्नुयात् |
कामार्थी च लभेत्कामं मोक्षार्थी मोक्षमाप्नुयात् || ९ ||

विद्यार्थी वा भवेद् विद्वान् पुत्रार्थी पुत्रवान्भवेत् |
रुग्णो ह्यारोग्यमाप्नोति जयार्थी विजयी भवेत् || १० ||

संकटे विषमस्थो वा पठन्मुव्येत नोऽचिरात् |
षोडशावृत्तिमात्रेण प्रत्यक्षं दर्शनं भवेत् || ११ ||

दैवतेषु प्रसुप्तेषु कलौ ह्यन्येषु रङ्ग राट् |
एको जागर्ति दत्तोऽयं देवदेवः सनातनः | १२ ||

|| अस्तु ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post