श्री स्वर्णाकर्षण भैरव स्तोत्र | Savarnaakarshan Bhairav Stotra |

 

स्वर्णाकर्षण भैरव स्तोत्र

श्री स्वर्णाकर्षण भैरव स्तोत्र



( भगवान् नन्दिकेश्वर और दत्तात्रेय जी का संवाद )
भगवान् प्रमथाधीश शिवतुल्य पराक्रम |
पूर्वमुक्तस्त्वया मंत्रो भैरवस्य महात्मनः ||

इदानीं श्रोतुमिच्छामि तस्य स्तोत्रमनुत्तमम् |
तत्केनोक्तं पुरा स्तोत्रं पठनात् तस्य किं फलम् ||

तत्सर्वं श्रोतुमिच्छामि ब्रूहि में नन्दिकेश्वर |

|| नन्दिकेश्वर उवाच ||
अयं प्रश्नो महाभाग लोकानामुपकारकः ||

स्तोत्रं बटुकनाथस्य दुर्लभं भुवनत्रये |
सर्वपाप प्रशमनं सर्वसम्पत् प्रदायकम् ||

दारिद्र्यनाशनं पुंसामापदामपहारकम् |
अष्टैश्वर्यप्रदं नृणां पराजय विनाशनम् ||

महाकिर्त्तिप्रदं पुंसामसौन्दर्य विनाशनम् |
स्वर्णाद्यष्ट महासिद्धि प्रदायकमनुत्तमम् ||

भुक्तिमुक्तिप्रदं स्तोत्रं भैरवस्य महात्मनः |
महाभैरवभक्ताय सेविने निर्धनाय च ||

निजभक्ताय वक्तव्यमन्यथा शापमाप्नुयात् |
स्तोत्रमेतद् भैरवस्य ब्रह्म विष्णु शिवात्मकम् ||

शृणुष्व रुचितो ब्रह्मन् सर्वकाम प्रदायकम् |

|| विनियोगः ||
ॐ अस्य श्री स्वर्णाकर्षण भैरव स्तोत्रमन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः
स्वर्णाकर्षण भैरव परमात्मा देवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम सर्वकामसिद्ध्यर्थे पाठे विनियोगः |

|| ऋष्यादिन्यासः ||
ब्रह्मर्षये नमः ( शिरसि ),
 अनुष्टुप् छन्दसे नमः ( मुखे ),
स्वर्णाकर्षण भैरवपरमात्मने नमः ( हृदये ),
ह्रीं बीजाय नमः ( गुह्ये ),
 क्लीं शक्तये नमः ( पादयोः ),
 सः कीलकाय नमः ( नाभौ ),
विनियोगाय नमः ( सर्वाङ्गे ) |

|| करन्यासः ||
ह्रां अंगुष्ठाभ्यां नमः |
ह्रीं तर्जनीभ्यां नमः |
ह्रूं मध्यमाभ्यां नमः |
ह्रैं अनामिकाभ्यां नमः |
ह्रौं कनिष्ठिकाभ्यां नमः |
ह्रः करतल कर पृष्ठाभ्यां नमः |

|| ह्रदयादिन्यासः ||
ह्रां हृदयाय नमः |
ह्रीं शिरसे स्वाहा |
ह्रूं शिखायै वषट् |
ह्रैं कवचाय हुम् |
ह्रौं नेत्रत्रयाय वौषट् |
ह्रः अस्त्राय फट् |

|| ध्यानः ||
पारिजातद्रुमान्तारे, स्थिते माणिक्य मण्डपे |
सिंहासनगतं वन्दे, भैरवं स्वर्णदायकम् |
गाङ्गेयपात्रं डमरुं त्रिशूलं, वरं करैः सन्दधतं त्रिनेत्रम् |
देव्यां युतं तप्तसुवर्णवर्ण, स्वर्णाकृषं भैरवमाश्रयामि ||
मुद्राः कमण्डलु डमरु त्रिशूल वर मुद्रा दर्शयेत् |

|| मूल स्तोत्र पाठः ||
ॐ नमस्ते भैरवाय ब्रह्माविष्णु शिवात्मने |
नमस्त्रैलोक्यवन्द्याय वरदाय वरात्मने ||

रत्नसिंहासनस्थाय दिव्याभरणशोभिने |
    दिव्यमाल्य विभूषाय नमस्ते दिव्यमूर्तये ||

नमस्तेऽनेकहस्ताय अनेकशिरसे नमः |
नमस्तेऽनेकनेत्राय अनेकविभवे नमः ||

नमस्तेऽनेक कण्ठाय अनेकांसाय ते नमः |
नमस्तेऽनेकपार्श्वाय ननमस्ते दिव्यतेजसे ||

अनेकायुधयुक्ताय अनेक सुरसेविने |
अनेक गुणयुक्ताय महादेवाय ते नमः ||

नमो दारिद्र्यकालाय महासम्पत्प्रदायिने |
श्रीभैरवी संयुक्ताय त्रिलोकेशाय ते नमः ||

दिगम्बर नमस्तुभ्यं दिव्याङ्गाय नमो नमः |
नमोऽस्तु दैत्यकालाय पापकालाय ते नमः ||

सर्वज्ञाय नमस्तुभ्यं नमस्ते दिव्यचक्षुषे |
अजिताय नमस्तुभ्यं जितामित्राय ते नमः ||

नमस्ते रुद्ररुपाय महावीराय ते नमः |
नमोऽस्त्वनन्तवीर्याय महाघोराय ते नमः ||

नमस्ते घोरघोराय विश्वघोराय ते नमः |
नमः उग्राय शान्ताय भक्तानां शान्तिदायिने ||

गुरवे सर्वलोकानां नमः प्रणवरुपिणे |
नमस्ते वाग्भवाख्याय दीर्घकामाय ते नमः ||

नमस्ते कामराजाय योषित्कामाय ते नमः |
दीर्घमायास्वरुपाय महामायाय ते नमः ||

सृष्टिमाया स्वरुपाय विसर्गसमयाय ते |
सुरलोक सुपूज्याय आपदुद्धारणाय च ||

नमो नमो भैरवाय महादारिद्र्यनाशिने |
उन्मूलने कर्मठाय अलक्ष्म्याः सर्वदा नमः ||

नमोऽजामलबद्धाय नमो लोकेश्वराय ते |
स्वर्णाकर्षणशीलाय भैरवाय नमो नमः ||

मम दारिद्र्यविद्वेषणाय लक्ष्याय ते नमः |
नमो लोकत्रयेशाय स्वानन्द निहिताय ते ||

नमः श्रीबीजरुपाय सर्वकामप्रदायिने |
नमो महाभैरवाय श्रीभैरव नमो नमः ||

धनाध्यक्ष नमस्तुभ्यं शरण्याय नमो नमः |
नमः प्रसन्नरुपाय आदिदेवाय ते नमः ||

नमस्ते मंत्ररुपाय नमस्ते रत्नरुपिणे |
नमस्ते सर्वरुपाय सुवर्णाय नमो नमः ||

नमः सुवर्णवर्णाय महापुण्याय ते नमः |
नमो शुद्धाय बुद्धाय नमः संसारतारिणे ||

नमो देवाय गुह्याय प्रचलाय नमो नमः |
नमस्ते बालरुपाय परेषां बलनाशिने ||

नमस्ते स्वर्णसंस्थाय नमो भूतलवासिने |
नमः पातालवासाय अनाधाराय ते नमः ||

नमो नमस्ते शान्ताय अनन्ताय नमो नमः |
द्विभुजाय नमस्तुभ्यं भुजत्रयसुशोभिने ||

नमोऽणिमादि सिद्धाय स्वर्णहस्ताय ते नमः |
पूर्णचन्द्रप्रतिकाशवदनाम्भोज शोभिने ||

नमस्तेऽस्तु स्वरुपाय स्वर्णालङ्कारशोभिने |
नमः स्वर्णाकर्षणाय स्वर्णभाय नमो नमः ||

नमस्ते स्वर्णकण्ठाय स्वर्णाभम्बरधारिणे |
स्वर्णसिंहासनस्थाय स्वर्णपादाय ते नमः ||

नमः स्वर्णाभपादाय स्वर्णकाञ्चीसुशोभिने |
नमस्ते स्वर्णजङ्घाय भक्तकामदुघात्मने ||

नमस्ते सवर्णभक्ताय कल्पवृक्षस्वरुपिणे |
चिन्तामणिस्वरुपाय नमो ब्रह्मादि सेविने ||

कल्पद्रुमाधःसंस्थाय बहुस्वर्ण प्रदायिने |
नमो हेमाकर्षणाय भैरवाय नमो नमः ||

स्तवेनानेन सन्तुष्टो भव लोकेश भैरव |
पश्य मां करुणादृष्ट्या शरणागतवत्सल ||

|| फलश्रुतिः ||
श्री महाभैरवस्येदं स्तोत्रमुक्तं सुदुर्लभम् |
मन्त्रात्मकं महापुण्यं सर्वैंश्वर्य प्रदायकम् ||

यः पठेन्नित्यमेकाग्रं पातकैः स प्रमुच्यते |
लभते महतीं लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ||

चिन्तामणिमवाप्नोति धेनुं कल्पतरुं ध्रुवम् |
स्वर्णराशिमवाप्नीति शीघ्रमेव स मानवः ||

त्रिसन्ध्यं यः पठेत् स्तोत्रं दशावृत्त्या नरोत्तमः |
स्वप्ने श्रीभैरवस्तस्य साक्षाद् भूत्वा जगद्गुरुः ||

स्वर्णराशिं ददात्स्यस्मै तत्क्षणं नास्ति संशयः |
अष्टावृत्त्या पठेद् यस्तु सन्ध्यायां वा नरोत्तमः ||

लभते सकलान् कामान् सप्ताहान्नात्र संशयः |
सर्वदा यः पठेत् स्तोत्रं भैरवस्य महात्त्मनः ||

लोकत्रयं वशीकुर्यादचलां श्रियमाप्नुयात् |
न भयं विद्यते क्वापि विषभूतादि सम्भवम् ||

म्रियन्ते शत्रवस्तस्य ह्यलक्ष्मी नाशमाप्नुयात् |
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ||

अष्टपञ्चाशद् वर्णाढ्यो मंत्रराजः प्रकीर्तितः |
दारिद्र्यदुःखशमनः स्वर्णाकर्षण कारकः ||

य एनं सन्जपेद् धीमान् स्तोत्रं वा प्रपठेत् सदा |
महाभैरव सायुज्यं सोंऽतकाले लभेद् ध्रुवम् ||

|| इति श्रीरुद्रयामले तन्त्रे ईश्वरदत्तात्रेय संवादे स्वरानकर्षण भैरवस्तोत्रं सम्पूर्णं ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post