श्री रुद्रद्वादशनाम स्तोत्रं | Shree Rudra Dhvadash Naam Stotra |

 

श्री रुद्रद्वादशनाम स्तोत्रं

श्री रुद्रद्वादशनाम स्तोत्रं



प्रथमं तू महादेवं द्वितीयं तु महेश्वरम् |
तृतीयं शङ्करं प्रोक्तं चतुर्थं वृषभध्वजम् || १ ||

पञ्चमं कृत्तिवासं च षष्ठं कामाङ्गनाशनम् |
सप्तमं देवदेवेशं श्रीकण्ठं चाष्टमं तथा || २ ||

नवमं तु हरं देवं दशमं पार्वतीपतिम् |
रुद्रमेकादशं प्रोक्तं द्वादशं शिवमुच्यते || ३ ||

|| फलश्रुति ||

एतद्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः |
गोघ्नश्चैव कृतध्नश्च भ्रूणहा गुरुतल्पगः || ४ ||

स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः |
सर्वं नाशयते पापं शिवलोकं स गच्छति || ५ ||

शुद्धस्फटिकसङ्काशं त्रिनेत्रं चन्द्रशेखरम् |
इन्दुमण्डलमध्यस्थं वन्दे देवं सदाशिवम् || ६ ||

|| इति श्री रुद्रद्वादशनाम स्तोत्रं | समाप्तम् ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post