श्री राधाष्टकम् | Shree Radhashtakam |

 

श्री राधाष्टकम्

श्री राधाष्टकम्



नमस्ते श्रियै राधिकायै परायै
नमस्ते नमस्ते मुकुन्दप्रियायै |
सदानन्दरुपे प्रसीद त्वमन्तः
प्रकाशे स्फुरन्ती मुकुन्देन सार्धम् || १ ||

स्ववासोऽपहारं यशोदासुतं वा
स्वदध्यादिचौरं समाराधयन्तीम् |
स्वदाम्नोदरं या बबन्धाशु नीव्या
प्रपद्ये नु दामोदरप्रेयसीं ताम् || २ ||

दुराराध्यमाराध्य कृष्णं वशे त्वं
महाप्रेमपूरेण राधाभिधाऽभूः |
स्वयं नामकृत्या हरिप्रेम यच्छ
प्रपन्नाय में कृष्णरुपे समक्षम् || ३ ||

मुकुन्दस्त्वया प्रेमदोरेण बद्धः
पतङ्गो यथा त्वामनुभ्राम्यमाणः |
उपक्रीडयन् हार्दमेवानुगच्छन्
कृपा वर्तते कारयातो मयेष्टिम् || ४ ||

व्रजन्तीं स्ववृन्दावने नित्यकालं
मुकुन्देन साकं विधायाङ्गमालम् |
सदा मोक्ष्यमाणानुकम्पाकटाक्षैः
श्रियं चिन्तयेत् सच्चिदानन्दरुपाम् || ५ ||

मुकुन्दानुरागेण रोमाञ्चिताङ्गी
महं व्याप्यमानां तनुस्वेदविन्दुम् |
महाहार्दवृष्ट्या कृपापाङ्गदृष्ट्या
समालोकयन्तीं कदा त्वां विचक्षे || ६ ||

पदाङ्कावलोके महालालसौघं
मुकुन्दः करोति स्वयं ध्येयपादः
पदं राधिके ते सदा दर्शयान्तं
हृदीतो नमन्तं किरद्रोचिषं माम् || ७ ||     

सदा राधिकानाम जिह्वाग्रतः स्यात्
सदा राधिका रुपमक्ष्यग्र आस्ताम् |
श्रुतौ राधिकाकीर्तिरन्तःस्वभावे
गुणा राधिकायाः श्रिया एतदिहे || ८ ||

इदं त्वष्टकं राधिकायाः प्रियायाः
पठेयुः सदैवं हि दामोदरस्य |
सुतिष्ठन्ति वृन्दावने कृष्णधाम्नि
सखीमूर्तयो युग्मसेवानुकूलाः || ९ ||

|| इति श्री भगवन्निम्बार्कमहामुनीन्द्रविरचितं श्री राधाष्टकं सम्पूर्णम् ||    
    
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post