ads

विष्णु स्तुति | Vishnu Stuti |

 

विष्णु स्तुति

विष्णु स्तुति 



|| श्री विष्णुरुवाच || 
वन्दे विष्णुं गुणातीतं गोविन्दमेकमक्षरम् |
अव्यक्तम् व्ययं व्वक्तं गोपवेषविधायिनम् ||

किशोरवयसं शान्तं गोपीकान्तंमनोहरम् |
नवीननीरदश्यामं कोटिकन्दर्पसुन्दरम् ||

वृन्दावनवनाभ्यन्ते रासमण्डलसंस्थितम् |
लसत्पीतपटं सौम्यं त्रिभङ्गललिताकृतिम् ||

रासेश्वरं रासवासं रासाल्लाससमुत्सुकाम् |
द्विभुजं मुरलोहस्तं पीतवाससमच्युतम् ||

इत्येवमुक्तवा तं नत्वा रत्नसिंहासने वरे |
पार्षदैः सत्कृतो विष्णुः स उवास तदाज्ञया ||

|| श्री नारायण उवाच ||

इति विष्णुकृतं स्तोत्रं प्रातरुत्थाय यः पठेत् |
पापानि तस्य नश्यन्ति दुःस्वपनः सत्फलप्रदः ||

भक्तिर्भवति गोविन्दे पुत्रपौत्रविवर्द्धिनी |
अकिर्तिः क्षयमाप्नोति सत्कीर्तिर्वर्द्धते चिरम् ||

|| अस्तु ||
विष्णु स्तुति | Vishnu Stuti | विष्णु स्तुति | Vishnu Stuti | Reviewed by karmkandbyanandpathak on 3:07 PM Rating: 5

No comments:

Powered by Blogger.