बाल रक्षा स्तोत्र | Bal Raksha Stotra |

 

बाल रक्षा स्तोत्र

बाल रक्षा स्तोत्र


गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् |
रक्षां कुर्यात् च शकृता द्वादशांगेषु नामभिः ||

अव्यात् अर्जोऽघ्रिमणिमान् तव जान्वथोरु
यज्ञोऽच्युतः कटितटं जठरं हयास्यः |
हृत् केशवः त्वदुर ईश इनस्तु कंठं
विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ||

चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्
त्वत्पार्श्वयोर्धनरसी मधुहाजनश्च |
कोणेषु शंख उरुगाय उपर्युपेन्द्रः, तार्क्ष्यः
क्षितौ हलधरः पुरुषः समन्तात् ||

इन्द्रियाणि हृषीकेशः प्राणान् नारायणोऽवतु |
श्वेतद्वीपपतिः चित्तं मनो योगेश्वरोऽवतु ||

पृश्नगर्भस्तु ते बुद्धिं आत्मानं भगवान् परः |
क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ||

व्रजन्तमव्याद् वैकुंठ आसीनं त्वां श्रियः पतिः |
भुंजानं यज्ञभुक् पातु सर्वग्रहभयंकरः ||

डाकिन्यो यातुधान्यश्च कूण्मांडा येऽर्भकग्रहाः |
भूतप्रेतपिशाचाः च यक्षरक्षो विनायकाः ||

कोटरा रवेती ज्येष्ठा पूतना मातृकादयः |
उन्मादा ये ह्यपस्मारा दहेप्राणेन्द्रिय द्रुहः ||

स्वप्नहष्टा महोत्पाता वृद्धबालग्रहाश्च ये |
सर्वे नश्यन्तु ते विष्णोः, नामग्रहणभीरवः ||

|| अस्तु ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post