दशरथ कृत शनैश्चर स्तोत्रम् | Shanishchar Stotra |

 

शनैश्चर स्तोत्रम्

दशरथ कृत शनैश्चर स्तोत्रम्



|| श्री गणेशाय नमः ||

अस्य श्री शनैश्चर स्तोत्रस्य दशरथ ऋषिः श्री शनैश्चरो देवता
 त्रिष्टुप्छन्दः शनैश्चरप्रीत्यर्थं जपे विनियोगः |

|| दशरथ उवाच ||
कोणोऽन्तको रौद्रयमोऽथ बभ्रुः कृष्णः शनिः पिंगलमन्दसौरिः ||
नित्यं स्मृतो यो हरते च पीडां तस्मै नमः श्री रविनन्दनाय || १ ||

सुरासुराः किंपुरुषोरगेन्द्रा गन्धर्वविद्याधरपन्नगाश्च ||
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्री रविनन्दनाय || २ ||

नरा नरेन्द्राः पशवो मृगेन्द्रा वन्याश्च ये कीटपतङ्गमृङ्ग ||
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्री रविनन्दनाय || ३ ||

देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुरपत्तनानि ||
पीड्यन्ति सर्वे विषमस्थितेन तस्मै नमः श्री रविनन्दनाय || ४ ||

तिलैर्यवैर्माषगुडान्नदानैर्लोहेन नीलाम्बरदानतो वा ||
प्रीणाति मन्त्रैर्निजवासरे च तस्मै नमः श्री रविनन्दनाय || ५ ||

प्रयागकूले यमुनातटे च सरस्वतीपुण्यजले गुहायाम् ||
यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै  नमः श्री रविनन्दनाय || ६ ||

अन्यप्रदेशात्स्वगृहं प्रविष्टस्तदीयवारे स नरः सुखी स्यात् ||
गृहाद्गतो यो न पुनः प्रयाति तस्मै  नमः श्री रविनन्दनाय || ७ ||

स्रष्टा स्वयंभूर्भुवनत्रयस्य त्राता हरिशो हरते पिनाकी ||
एकस्त्रिधा ऋग्यजुःसाममूर्तिस्तस्मै  नमः श्री रविनन्दनाय || ८ ||

शन्यष्टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबान्धवैश्च ||
पठेत्तु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदन्ते || ९ ||

कोणस्थः पिंगलो बभ्रुः कृष्णो रौद्राऽन्तको यमः ||
सौरिः शनैश्चरो मन्दः पिप्पलादेन संस्तुतः || १० ||

एतानि दश नामानि प्रातरुत्थाय यः पठेत् ||
शनैश्चरकृता पीडा न कदाचिद्भविष्यति || ११ ||

|| इति श्री शनैश्चरस्तोत्रं सम्पूर्णम् ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post