शनैश्चर स्तवराजः | Shanaishchara Stavraj |

 

 शनैश्चर  स्तवराजः

शनैश्चर  स्तवराजः


|| श्री गणेशाय नमः ||

|| नारद उवाच ||

ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः ||
धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम् || १ ||

शिरो में भास्करिः पातु भालं छायासुतोऽवतु ||
कोटराक्षो हशौ पातु शिखिकण्ठनिभः श्रुती || २ ||

घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु ||
स्कन्धौ संवर्तकः पातु भुजौ में भयदोऽवतु || ३ ||

सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु ||
ग्रहराजः कटिं पातु सर्वतो रविनन्दनः || ४ ||

पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः ||
रक्षामेतां पठेनित्यं सौरेर्नामबलैयुताम् || ५ ||

सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः ||
ॐ सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः || ६ ||

शुष्कोदरो विशालाक्षो दुर्निरीक्ष्यो विभीषणः ||
शितिकण्ठनिभो नीलश्छायाहृदयनन्दनः || ७ ||

कालदृष्टिः कोटराक्षः स्थूलरोमा बलीमुखः ||
दीर्घो निर्मांसगात्रस्तु शुष्को घोरो भयानकः || ८ ||

नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः ||
मन्दो मन्दगतिः  खञ्जोऽतृप्तः संवर्तको यमः || ९ ||

ग्रहराजः कराली च सूर्यपुत्रो रविः शशी ||
कुजो बुधो गुरुः काव्यो भानुजः सिंहिकासुतः || १० ||

केतुर्देवपतिर्बाहुः कृतान्तो नैऋतस्तथा ||
शशी मरुत्कुबेरश्च ईशानः सुर आत्मभूः || ११ ||

विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः ||
कर्ता हर्ता पालयिता राज्यभुग् राज्यदायकः || १२ ||

छायासुतः श्यामलांगो धनहर्ता धनप्रदः ||
क्रूरकर्मविधाता च सर्वकर्मावरोधकः || १३ ||

तुष्टो रुष्टः कामरुपः कामदो रविनन्दनः ||
ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः || १४ ||

स्थिरासनः स्थिरगतिर्महाकायो महाबलः |
महाप्रभो महाकालः कालात्मा कालकालकः || १५ ||

आदित्यः भयदाता च मृत्युरादित्यनन्दनः |
शतभिद्रुक्षदयिता त्रयोदशितिथिप्रियः || १६ ||

तिथ्यात्मा तिथिगणनो नक्षत्रगणनायकः |
योगराशिर्मुहर्तात्मा कर्ता दिनपतिः प्रभुः || १७ ||

शमीपुष्पप्रियः श्यामस्त्रैलोक्य भयदायकः |
नीलवासाः क्रियासिन्धुर्नीलाञ्जयजनच्छविः || १८ ||

सर्वरोगहरो देवः सिद्धो देवगणस्तुतः |
अष्टोत्तरशतं नाम्नां सौरेश्चायासुतस्य यः || १९ ||

पठेन्नित्यं तस्य पीड़ा समस्ता नश्यति ध्रुवम् |
कृत्वा पूजां पठेन्मर्त्यो भक्तिमान् य स्तवं सदा || २० ||

विशेषतः शनिदिने पीड़ा तस्य विनश्यति |
जन्मलग्ने स्थितिर्वापि गोचरे क्रूरराशिगे || २१ ||

दशासु च गते सौरेस्तदा स्तवमिमं पठेत् |
पूजयेद्यः शनिं भक्त्या शमीपुष्पाक्षताम्बरैः || २२ ||

विधाय लोहप्रतिमां नरो दुःखाद्विमुच्यते |
बाधाचान्यग्रहाणां च यः पठेतस्य नश्यति || २३ ||

भीतो भयाद्विमुच्यते बद्धो मुच्येत बन्धनात् |
रोगी रोगाद्विमुच्यते बद्धो मुच्येत बन्धनात् || २४ ||

रोगी रोगाद्विमुच्यते बद्धो नरः इमं पठेत् |
पुत्रबान्धनवान् श्रीमाञ्जयते नात्र संशयः || २५ ||

|| नारद उवाच ||

स्तवं निशम्य पार्थस्य, प्रत्यक्षोऽभूच्छनैश्चरः |
दत्त्वा राज्ञे वरं, कामं शनिश्चरान्तर्दधे तदा || २६ ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post