याज्ञ्यवल्क्य कृत सरस्वती स्तोत्र | Yaagnyavalskya muni rachit saraswati stotra |


श्री याज्ञवल्क्य कृत सरस्वती स्तोत्र

श्री याज्ञवल्क्य कृत सरस्वती स्तोत्र


अपने गुरु के श्राप की वजह से जब याज्ञवल्क्यमुनि की विद्या बुद्धि नाश्ता हो गई वह भगवान् सूर्य की आराधना कर के उनके ही आशीर्वाद से माँ सरस्वती की रुदन करते हुये आराधना करते है यही वह स्तोत्र है | माँ सरस्वती प्रसन्न होकर उन्हें पुनः विद्या बुद्धि स्मृति प्रदान कर अंतर्ध्यान हो जाती है |

इस स्तोत्र के पाठ मात्र से मुर्ख मनुष्य भी विद्वता प्राप्त करता है |
कवीन्द्रपद प्राप्त करता है | बुद्धि प्राप्त करता है |
वाणी में विनम्रता प्राप्त करता है ||
वाणी से जुडी समस्याओ का अंता होता है ||

श्री याज्ञवल्क्य उवाच 


कृपां कुरु जगन्मातर्मामेवं हततेजसम् |
गुरुशापात् स्मृतिभ्रष्टं विद्याहीनं च दुःखीतम् ||

ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते |
प्रतिष्ठां कवितां देहि शक्तिं शिष्यप्रबोधिनिम् ||

ग्रन्थकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् |
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ||

लुप्तं सर्वं दैववशान्नवीभूतं पुनः कुरु |
यथांकुरं भस्मनि च करोति देवता पुनः ||

ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी |
सर्वविद्यादि देवी या तस्यै वाण्यै नमो नमः ||

यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा |
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ||

यया विना जगत्सर्वं मूकमुन्मत्तवत सदा |
वाग्धिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ||

हिमचंदनकुन्देन्दुकुमुदाम्भोजसन्निभा |
वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ||

विसर्गबिन्दुमात्राणां यदधिष्ठानमेव च |
इत्थं त्वं गीयसे सद्भिरभारत्यै ते नमो नमः ||

यया विना च संख्याता संख्यां कर्तृम् न शक्यते |
कालसंख्यास्वरूपा या तस्यै देव्यै नमो नमः ||

व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता | 
भ्रमसिद्धांतरूपा या तस्यै देव्यै नमो नमः || 

स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी ||

प्रतिभा कल्पना शक्तिर्या च तस्यै नमो नमः |
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ||

बभूव जड़वत् सोऽपि सिद्धान्तं कर्तुमक्षमः | 
तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः || 

उवाच स च तां स्तौहि वाणीमिष्टां प्रजापते | 
स च तुष्टाव त्वां ब्रह्मा चाज्ञया परमात्मनः || 

चकार त्वत्प्रसादेन तदा सिद्धान्तमुत्तमम् |
यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुंधरा ||

बभूब मूकवत् सोपि सिद्धांतं कर्तुमक्षम: |
तदा त्वां स च तुष्टाव संत्रस्तः कश्यपाज्ञया ||

ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् |
व्यासः पूराणसूत्रं च पप्रच्छ वाल्मिकिं यदा ||

मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् |
तदा चकार सिद्धान्तं तद्वरेण मुनीश्वरः ||

सम्प्राप्य निर्मलं ज्ञानं प्रमादध्वंसकारणम् |
पूराणसूत्रं श्रुत्वा च व्यास: कृष्णकलोद्भव: ||

त्वां सिषेवे च दध्यौ च शतवर्षं च पुष्करे |
तदा त्वत्तो वरं प्राप्य सत्कविन्द्रो बभूव ह ||

तदा वेदविभागं च पुराणं च चकार सः |
यदा महेन्द्रः पप्रच्छ तत्वज्ञानं सदाशिवम् ||

क्षणं त्वामेव सञ्चिन्त्य तस्मै ज्ञानं ददौ विभुः |
पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम् ||

दिव्यं वर्षसहस्त्रं च स त्वां दध्यौ च पुष्करे |
तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्त्रकम् ||

उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् |
अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ||

ते च त्वां परि(सं)सिंचिन्त्य प्रवर्तते सुरेश्वरिम् |
त्वं संस्तुता पूजिता च मुनिद्रैर्मनुमानवैः ||

दैत्येन्द्रश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः |
जड़ीभूतः सहस्त्रास्य: पंचवक्त्रश्चतुर्मुखः ||

यां स्तोतुं किमहं स्तौमि तामेंकास्येन मानवः |
इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः ||

प्रणनाम निराहारो रुरोद च मुहुर्मुहुः |
तदा ज्योतिः स्वरूपा सा तेन द्रष्टाप्युवाचतम् || 

सुकवीन्द्रो भवेक्त्युक्त्वा वैकुण्ठं च जगाम ह |
  याज्ञवल्क्यकृतं वाणीस्तोत्रमेतत्तु य: पठेत् ||

स कवीन्द्रो महावाग्मी बृहस्पतिसमो भवेत् |
महामूर्खश्च दुर्मेधा वर्षमेकं यदा पठेत् ||

स पण्डितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post