अष्टाक्षर मन्त्र और उसका माहात्म्य | Ashtaakshar mantra aur uska mahatva |

 

अष्टाक्षर मन्त्र और उसका माहात्म्य

अष्टाक्षर मन्त्र और उसका माहात्म्य



|| श्री शुक उवाच ||
किं जपत् मुच्यते तात सततं विष्णुतत्परः |
संसारदुःखात् सर्वेषां हिताय वद में पितः || १ ||

|| व्यास उवाच ||
अष्टाक्षरं प्रवक्ष्यामि मन्त्राणां मन्त्रमुत्तमम् |
यान जपत् मुच्यते मर्त्यो जन्मसंसारबन्धनात् || २ ||

हृत्युण्डरीकमध्यस्थं शङ्खचक्रगदाधरम् |
एकाग्रमनसा ध्यात्वा विष्णुं कुर्याज्जपं द्विजः || ३ ||

एकान्ते निर्जनस्थाने विष्ण्वग्रे व जलान्तिके |
जपेदष्टाक्षरं मन्त्रं चित्ते विष्णुं निधाय वै || ४ ||

अष्टाक्षरस्य मन्त्रस्य ऋषिर्नारायणः स्वयम् |
छन्दश्च दैवी गायत्री परमात्मा च देवता || ५ ||

शुक्लवर्णं च ॐकारं नकारं रक्त्तमुच्यते |
मोकारं वर्णतः कृष्णं नाकारं रक्तमुच्यते || ६ ||

राकारं कुंकुमाभं तु यकारं पीतमुच्यते |
णाकारमञ्जनाभं तु यकारं बहुवर्णकम् || ७ ||

ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः |
भक्तानां जपतां तात स्वर्गमोक्षफलप्रदः |
वेदानां प्रणवेनैष सिद्धो मन्त्रः सनातनः || ८ ||

सर्वपापहरः श्रीमान् सर्वमन्त्रेषु चोत्तमः |
एनमष्टाक्षरं मन्त्रं जपन्नारायणं समरेत् || ९ ||

संध्यावसाने सततं सर्वपापैः प्रमुच्यते |
एष एव परो मन्त्र एष एव परं तपः || १० ||

एष एव परो मोक्ष एष स्वर्ग उदाहृतः |
सर्ववेदरहस्येभ्यः सार एष समुद्धतः || ११ ||

विष्णुना वैष्णवानां हि हिताय मनुजां पुरा |
एवं ज्ञात्वा ततो विप्रो ह्यष्टाक्षरमिमं स्मरेत् || १२ ||

सन्नात्वा शुचिः शुचौ देशे जपेत् पापविशुद्धये |
जपे दाने च होमे च गमने ध्यानपर्वये || १३ ||

जपेन्नारायणं मन्त्रं कर्मपूर्वे परे तथा |
जपेत्सहन्त्रं नियुतं शुचिर्भूत्वा समाहितः || १४ ||

मासि मासि तु द्वादश्यां विष्णुभक्तो द्विजोत्तमः |
सन्नात्वा शुचिर्जपेद्यस्तु नमो नारायणं शतम् || १५ ||

स गच्छेत् परमं देवं नारायणमनामयम् |
गन्धपुष्पादिभिर्विष्णुमनेनाराध्य यो जपेत् || १६ ||

महापातकयुक्त्तोऽपि मुच्यते नात्र संशयः |
हृदि कृत्वा हरिं देवं मन्त्रमेनं तु यो जपेत् || १७ ||

सर्वपापविशुद्धात्मा स गच्छेत् परमां गतिम् |
प्रथमेन तु लक्षेण आत्मशुद्धिर्भविष्यति || १८ ||

द्वितीयेन तु लक्षेण मनुसिद्धिमवाप्नुयात् |
तृतीयेन तु लक्षेण स्वर्गलोकमवाप्नुयात् || १९ ||

चतुर्थेन तु लक्षेण हरेः सामीप्यमाप्नुयात् |
पञ्चमेव तु लक्षेण निर्मलं ज्ञानमाप्नुयात् || २० ||

तथा षष्ठेन लक्षेण भवेद्विष्णौ स्थिरा मतिः |
सप्तमेन तु लक्षेण स्वरूपं प्रतिपद्यते || २१ ||

अष्टमेन तु लक्षेण निर्वाणमधिगच्छति |
स्वस्वधर्मसमायुक्त्तो जपं कुर्याद् द्विजोत्तमः || २२ ||

एतत् सिद्धिकरं मन्त्रमष्टाक्षरमतन्द्रितः |
दुःस्वप्नासुरपैशाचा उरगा ब्रह्मराक्षसाः || २३ ||

जापिनं नोपसर्पन्ति चौरक्षुद्राधयस्तथा |
एकाग्रमनसाव्यग्रो विष्णुभक्तो दृढव्रतः || २४ ||

जपेन्नारायणं मन्त्रमेतन्मृत्युभयाहम् |
ममन्त्राणां परमो मन्त्रो देवतानां च दैवतम् || २५ ||

गुह्यानां परमं गुह्यमोंकाराद्यक्षराष्टकम् |
आयुष्यं धनपुत्रांश्च पशून् विद्यां महद्यशः || २६ ||

धर्मार्थकाममोक्षांश्च लभते च जपन्नरः |
एतत् सत्यं च धर्म्यं च वेदश्रुतिनिदर्शनात् || २७ ||

एतत् सिद्धिकरं नॄणां मन्त्ररूपं न संशयः |
ऋषयः पितरो देवाः सिद्धास्त्वसुरराक्षसाः || २८ ||

एतदेव परं जप्त्वा परां सिद्धिमितो गताः |
ज्ञात्वा यस्त्वात्मनः कालं शास्त्रान्तरविधानतः |
अन्तकाले जपन्नेति तद्विष्णोः परमं पदम् || २९ ||

नारायणाय नम इत्यायमेव सत्यं
संसारघोरविषसंहरणाय मन्त्रः |
शृण्वन्तु भव्यमतयो मुदितास्त्वारागा
उच्चैस्तरामुपदिशाम्यहमूर्ध्वबाहुः || ३० ||

भूत्वोर्ध्वबाहुरद्याहं सत्यपूर्वं ब्रवीम्यहम् |
हे पुत्र शिष्याः शृणुत न मन्त्रोऽष्टाक्षरात्परः || ३१ ||

सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते |
वेदाच्छास्त्रं परं नास्ति न देवः केशवात् परः || ३२ ||

आलोच्य सर्वशास्त्राणि विचार्य च पुनः पुनः |
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा || ३३ ||

इत्येतत् सकलं प्रोक्तं शिष्याणां तव पुण्यदम् |
कथाश्च विविधाः प्रोक्ता मया भज जनार्दनम् || ३४ ||

अष्टाक्षरमिमं मन्त्रं सर्वदुःखविनाशनम् |
जप पुत्र महाबुद्धे यदि सिद्धिमभीप्ससि || ३५ ||

इदं स्तवं व्यासमुखात्तु निस्सृतं
संध्यात्रये ये पुरुषाः पठन्ति |
ते धौतपाण्डुरपटा इव राजहंसाः
संसारसागरमपेतभयास्तरन्ति || ३६ ||

|| इति श्री नरसिंहपुराणे अष्टाक्षरमाहात्म्यं नाम सप्तदशोऽध्यायः ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post