सरस्वती कवच | Sarasvati Kavach |

 

सरस्वती कवच

सरस्वती कवच


|| याज्ञवल्क्य उवाच ||
कृपां कुरु जगन्मातर्मामेवं हततेजसम् |
गुरुशापात् स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ||

ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते |
प्रतिष्ठां कवितां देहि शक्तिं शिष्यप्रबोधिनीम् ||

ग्रन्थकर्तुत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् |
प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ||

लुप्तं सर्वं दैववशान्नविभूतं पुनः कुरु |
यथाङ्कुरं भस्मनि च करोति देवता पुनः ||

ब्रह्मस्वरुपा परमा ज्योतिरुपा सनातनी |
सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ||

यया विना जगत् सर्वं शश्वज्जीवन्मृतं सदा |
ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ||

यया विना जगत् सर्वं मूकमुन्मत्तवत् सदा |
वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ||

हिमचन्दनकुन्देन्दुकुमुदाम्भोजसंनिभा |
वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ||

विसर्गबिन्दुमात्राणां यदधिष्ठानमेव च |
इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ||

यया विनाच संख्याता संख्यां कर्तृम् न शक्यते |
कालसंख्यास्वरुपा या तस्यै देव्यै नमो नमः ||

व्याख्यास्वरुपा या देवी व्याख्याधिष्ठातृदेवता |
भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ||

स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्त्तिस्वरुपिणी ||

प्रतिभा कल्पना शक्तिर्या च तस्यै नमो नमः |
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ||

बभूव जडवत् सोऽपि सिद्धान्तं कर्तुमक्षमः |
तदाऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः ||

उवाच स च तां स्तौहि वाणीमिष्टां प्रजापते |
स च तुष्टाव त्वां ब्रह्मा चाज्ञया परमात्मनः ||

चकार त्वत्प्रसादेन तदा सिद्धान्तमुत्तमम् |
यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुंधरा ||

बभूव मूकवत् सोऽपि सिद्धान्तं कर्तुमक्षमः |
तदा त्वां स च तुष्टाव संत्रस्तः कश्यपाज्ञया ||

ततश्चकार सिद्धन्तं निर्मलं भ्रमभन्जनम् |
व्यासः पुराणसूत्रं च पप्रच्छ वाल्मिकिं यदा ||

मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् |
तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः ||

सम्प्राप्य निर्मलं ज्ञानं प्रमादध्वंसकारणम् |
पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद्भवः ||

त्वां सिषेवे च दध्यौ च शतवर्षं च पुष्करे |
तदा त्वत्तो वरं प्राप्य सत्कवीन्द्रो बभूव ह ||

तदा वेदविभागं च पुराणं च चकार सः|
यदा महेन्द्रः पप्रच्छ तत्त्वज्ञानं सदाशिवम् ||

क्षणं त्वामेव संचिन्त्य तस्मै ज्ञानं ददौ विभुः |
पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम् ||

दिव्यं वर्षसहस्त्रं च स त्वां दध्यौ च पुष्करे |
तदा त्वत्तो वरं प्राप्य दिव्यवर्षसहस्त्रकम् ||

उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् |
अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ||

ते च त्वां परिसंचिन्त्य प्रवर्तन्ते सुरेश्वरीम् |
त्वं संस्तुता पूजिता च मुनीन्द्रैर्मनुमानवैः ||

दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः |
जडीभूतः सहस्त्रास्यः पञ्चवक्त्रश्चतुर्मुखः ||

यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः |
इत्युक्त्वा याज्ञवल्क्यश्च भक्त्तिनम्रात्मकन्धरः ||

प्रणनाम निराहारो रुरोद च मुहुर्मुहुः |
तदा ज्योतिःस्वरूपा सा तेन दृष्टाप्युवाच तम् ||

सुकवीन्द्रो भवेत्युत्क्वा वैकुण्ठं च जगाम ह |
याज्ञवल्क्यकृतं वाणीस्तोत्रमेतत्तु यः पठेत् ||

स कविन्द्रो महावाग्मी बृहस्पतिसमो भवेत् |
महामूर्खश्च दुर्मेधा वर्षमेकं यदा पठेत् ||

स पण्डितश्च मेधावी सुकविश्च भवेद् ध्रुवम् ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post