अपामार्जन विधान | Apaamarjan Vidhan |


अपामार्जन विधान

अपामार्जन विधान


श्री अग्निनारायणरुवाच 

ॐ नमःपरमार्थाय पुरुषाय महात्मने | 
अरूपबहुरूपाय व्यापिने परमात्मने || 

निष्कल्मषाय शुद्धाय ध्यानयोगरताय च |
नमस्कृत्य प्रवक्ष्यामि यत् तत् सिध्यतु में वचः || 

वराहाय नृसिंहाय वामनाय महात्मने | 
नमस्कृत्य प्रवक्ष्यामि यत् तत् सिध्यतु में वचः ||

त्रिविक्रमाय रामाय वैकुण्ठाय नराय च | 
नमस्कृत्य प्रवक्ष्यामि यत् तत् सिध्यतु में वचः ||
 

वराह नरसिंहेश वामनेश त्रिविक्रम |

हयग्रीवेश सर्वेश हृ हृषीकेश हराशुभम्


अपराजित चक्राद्यैश्चतुर्भिः परमायुधैः |

अखण्डितानुभावैस्त्वं सर्वदुष्टहरो भव ||


हरामुकस्य दुरितं सर्वं  कुशलं कुरु |

मृत्युबन्धार्तिभयदं दुरिष्टस्य यत्फलम् ||


पराभिध्यानसहितैः प्रयुक्तं चाभिचारिकम् |

गरस्पर्शमहारोगप्रयोगं जरया जर ||


नमो वासुदेवाय नमः कृष्णाय खड्गिने |

नमः पुष्करनेत्राय केशवायादिचक्रिणे ||


नमः कमलकिञ्जल्कपीतनिर्मलवाससे |

महाहयरिपुस्कन्धधृष्टचक्राय चक्रिणे ||


दंष्ट्रोद्धृतक्षितिभृते त्रयीमूर्तिमते नमः |

महायज्ञवराहाय शेषभागाङ्कशायिने ||


तप्तहाटककेशान्तज्वलत्पावकलोचन |

वज्राधिकनखस्पर्श दिव्यसिंह नमोस्तु ते ||


काश्यपायातिह्रस्वाय ऋग्यजुः सामभूषिणे |

तुभ्यं वामनरुपायाक्रमते गां नमो नमः ||


वराहाशेषदुष्टानि सर्वपापफलानि वै |

मर्द मर्द महादंष्ट्र मर्द मर्द तत्फलम् ||


नारसिंह करालास्य दन्तप्रान्तानलाज्ज्वल |

भञ्ज भञ्ज निनादेन दुष्टान् पश्यार्तिनाशन ||


ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरुपधृक् |
प्रशमं सर्वदुःखानि नयत्वस्य जनार्दन ||

ऐकाहिकं द्व्याहिकं च तथा त्रिदिवसं ज्वरम् |
चातुर्थिकं तथात्युग्रं तथैव सततं ज्वरम् || 

दोषोत्थं संनिपातात्थं तथैवागन्तुकं ज्वरम् |
शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम् ||

नेत्रदुःखं शिरोदुःखं दुःखं चोदरसम्भवम् |
अनिश्वासमतिश्वासं परितापं सवेपथुम् ||

गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगांस्तथा क्षयम् |
कामलादींस्तथा रोगान् प्रमेहांश्चातिदारुणान् ||

भगन्दरातिसारांश्च मुखरोगांश्च वल्गुलिम् |
अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान् ||

ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः |
कफोद्भवाश्च ये केचिद् ये चान्ये सांनिपातिकाः ||

आगन्तुकाश्च ये रोगा लूताविस्फोटकादयः |
ते सर्वे प्रशमं यान्तु वासुदेवस्य कीर्तनत् ||

विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च |
क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः ||

अच्युतानन्तगोविन्दनामोच्चारणभेषजात् |
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ||

स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् |
दन्तोद्भवं नखभवमाकाशप्रभवं विषम् || २७ ||

लूतादिप्रभवं यच्च विषमन्यत्तु  दुःखदम् |
शमं नयतु तत्सर्वं वासुदेवस्य कीर्तनम् ||

ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान् |
वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षराक्षसान् ||

शकुनीपूतनाद्यांश्च तथा वैनायकान् ग्रहान् |
मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम् ||

वृद्धिकाख्यान्ग्रहाश्चोग्रांस्तथा मातृग्रहानपि |
बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान् ||

वृद्धाश्च ये ग्रहाः केचिद् ये च बालग्रहाः क्वचित् |
नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने ||

सटाकरालवदनो नारसिंहो महाबलः |
ग्रहानशेषान्निःशेषान् करोतु जगतो हितः ||

नरसिंह महासिंह ज्वालामालोज्ज्वलानन |
ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन ||

ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः |
यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः ||

शस्त्रक्षतेषु ये दोषा ज्वालागर्दभकादयः |
तानि सर्वाणि सर्वात्मा परमात्मा जनार्दनः ||

किंचिद्रूपं समास्थाय वासुदेवास्य नाशय |
क्षिप्त्वा सुदर्शनं चक्रं ज्वालामालातिभीषणम् ||

सर्वदुष्टोपशमनं कुरु देववराच्युत |
सुदर्शन महाज्वाला च्छिन्धि च्छिन्धि महारव ||

सर्वदुष्टानि रक्षांसि क्षयं यान्तु विभीषण |
प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा ||

रक्षां करोतु सर्वात्मा नरसिंहः स्वगर्जितैः |
दिवि भुव्यन्तरिक्षे च पृष्ठतः पार्श्वतोऽग्रतः ||

रक्षां करोतु भगवान् बहुरुपी जनार्दनः |
यथा विष्णुर्जगत्सर्वं सदेवासुरमानुषम् ||

तेन सत्येन दुष्टानि शममस्य व्रजन्तु वै |
यथा विष्णौ स्मृते सद्यः संक्षयं यान्ति पातकाः ||

सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु |
यथा यज्ञेश्वरो विष्णुर्देवेष्वपि हि गीयते ||

सत्येन तेन सकलं यन्मयोक्तं तथास्तु तत् |
शान्तिरस्तु शिवं चास्तु दुष्टमस्य प्रशाम्यतु ||

वासुदेवशरीरोत्थैः कुशैर्निर्णाशितं मया |
अपमार्जति गोविन्दो नरो नारायणस्तथा ||

तथास्तु सर्वदुःखानां प्रशमो वचनाद्धरेः |
अपामार्जनकं शस्तं सर्वरोगादिवारणम् ||

अहं हरिः कुशा विष्णुर्हता रागा मया तव ||

|| अस्तु ||
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

1 Comments

Previous Post Next Post