सर्प सूक्तम | Sarp suktam |

 

सर्प सूक्त

सर्प सूक्त



ब्रह्मलोके च ये सर्पाः शेषनागपुरोगमाः |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

विष्णुलोके च ये सर्पा वासुकिप्रमुखाश्च ये |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

रुद्रलोके च ये सर्पास्तक्षकप्रमुखास्तथा |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

खांडवस्य तथा दाहे स्वर्गं ये च समाश्रिताः |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

सर्पसत्रे च ये सर्पा आस्तिकेन च रक्षिताः |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

मलये चैव ये सर्पाः कर्कोट प्रमुखाश्च ये | 
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

धर्मलोके च ये सर्पा वैतरण्यां समाश्रिताः | 
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

ये सर्पा: पार्वतीयेषु दरिसंधिषु संस्थिताः | 
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

ग्रामे वा यदि वारण्ये, ये सर्पाः प्रचरंति हि |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

पृथिव्यां चैव ये सर्पा, ये सर्पा बलिसंस्थिताः |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

रसातले च ये सर्पा, अनंताद्या महाबलाः |
नमोस्तु तेभ्यः सुप्रीताः प्रसन्नाः संतु ते सदा ||

|| अस्तु ||



Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post