श्री विष्णु षोडश नाम स्तोत्र | shri vishnu shodash nama stotram |

 

श्री विष्णु षोडश नाम स्तोत्र


 श्री गणेशाय नमः |

श्री विष्णु षोडश नाम स्तोत्र


औषधे चिन्तयेद्विष्णूं भोजने च जनार्दनम् |

शयने पद्मनाभं च विवाहे च प्रजापतिम् || १ ||


युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् |

नारायणं तनुत्यागे श्री धरं प्रियसंगमे || २ ||


दुःस्वप्ने स्मर गोविन्दं संकटे मधुसुदनम् |

कानने नारसिंहं च पावके जलशायिनम् || ३ ||


जलमध्ये वराहं च पर्वते रघुनन्दनम् |

गमने वामनं चैव सर्वकार्येषु माधवम् || ४ || 


षोडशैतानि नामानि प्रातरूत्थाय यः पठेत् | 

सर्वपापविनिर्मुक्तो विष्णुलोके महीयते || ५ || 


|| श्री विष्णोः षोडशनाम स्तोत्रं सम्पूर्णम्  || 




Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post