श्री चन्द्राष्टाविंशति नाम स्तोत्र | Chandra Vinshati Naam Stotram |


श्री चन्द्राष्टाविंशति नाम स्तोत्र

श्री चन्द्राष्टाविंशति नाम स्तोत्र | Chandra Vinshati Naam Stotram |
श्री चन्द्राष्टाविंशति नाम स्तोत्र 


चन्द्रदेव के 20 नाम 
चन्द्रग्रह नाम स्तोत्र
विनियोगः
ॐ अस्य श्री चन्द्राष्टाविंशति नाम स्तोत्रस्य गौतमऋषिः सोमोदेवता विराट छन्दः चन्द्र प्रीत्यर्थे पाठे विनियोगः | 
चन्द्रस्य श्रुणु नामानि शुभदानि महीपते | 
यानि श्रुत्वा नरो दुःखान् मुच्यते नात्र संशय || 
सुधाकरश्च सोमश्च ग्लौरजः कुमुदप्रियः | 
लोकप्रिय शुभ्रभानुश्चन्द्रमा रोहिणीपतिः || 
शशी हिमकरो राजा द्विजराजो निशाकरः | 
आत्रेय इन्दुः शीतांशुरौषधीशः कलानिधिः || 
जैवात्रको रमाभ्राता क्षीरोदार्णवसम्भवः | 
नक्षत्रनायकः शम्भुशिरश्चूडामाणिर्विभुः || 
तापहर्ता नभोदीपो नामान्येतानि यः पठेत् | 
प्रत्यहं क्रियासंयुक्तस्तस्यपीड़ा विनश्यति || 

|| फलश्रुति || 
तुहिने च पठेद्यस्तु लभेत् सर्व समीहितम् | 
गृहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा || 

|| श्री  चन्द्राष्टाविंशति नाम स्तोत्र सम्पूर्णं || 
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post