श्री विष्णु सहस्त्र नाम | Vishnu Sahstranaam Path Full |


श्री विष्णुसहस्त्र नाम पाठ 

श्री विष्णु सहस्त्र नाम | Vishnu Sahstranaam Path Full |
श्री विष्णु सहस्त्र नाम 


विष्णुसहस्त्र शापविमोचन विधी 
क्युकी बिना शाप विमोचन किये विष्णुसहस्त्र पाठ करने से उसका कोई परिणाम प्राप्त नहीं होता है | 
क्युकी यह पाठ महादेव द्वारा शापित है इसीलिए सबसे पहले इसे शाप में से मुक्त करना बहुत ही जरुरी है | 
इस स्तोत्र के महदेवऋषि है ,अनुष्टुप छंद है,रूद्र अनुग्रह शक्ति है |


शापविमोचन क्यों जरुरी है ?
विष्णोः सहस्त्रनाम्नां यो न कृत्वा शापमोचनम | 
पठेच्छुभानि सर्वाणि स्तुस्तस्य निष्फलानि तुम || 
अर्थात विष्णुसहस्त्र पाठ शापविमोचन के बिना अगर किया जाए तो वो निष्फल हो जाता है | 

रुद्रशाप विमोचन विधी : सर्वप्रथम विनियोग करे | 

विनियोग : अस्य श्री विष्णोर्दिव्यसहस्त्रनाम्नां रुद्रशापविमोचन मंत्रस्य महादेवऋषिः | अनुष्टुप छन्दः | श्री रुद्रानुग्रहशक्तिर्देवताः | सुरेशः शरणंशर्मेति बीजं | अनन्तो हुत भुग भोक्तेति शक्तिः | सुरेश्वरायेति कीलकं | रुद्रशाप विमोचने विनियोगः | 


उसके पश्चात् न्यास का विधान है सर्वप्रथम करन्यास कर बाद में हृदयादि न्यास का विधान करना है |
करन्यास : ॐ क्लीं ह्रां अंगुष्ठाभ्यां नमः | ॐ ह्रीं तर्जनीभ्यां नमः | ॐ ह्रुं मध्यमाभ्यां नमः | ॐ ह्रैं अनामिकाभ्यां नमः | ॐ ह्रौं कनिष्ठिकाभ्यां नमः | ॐ ह्रः करतलकरपृष्ठाभ्यां नमः |
हृदयादिन्यास : ॐ क्लीं ह्रां हृदयाय नमः | ॐ ह्रीं शिरसे स्वाहा | ( ॐ हुम् शिखायै वषट )ॐ ह्रुं शिखायै वौषट | ॐ ह्रैं कवचाय हुम् | ॐ ह्रौं नेत्रत्रयाय नमः | ॐ ह्यु: अस्त्राय फट |

इसके बाद फिर शापविमोचन मंत्र का सौ बार जाप करे |
मंत्र : 'ॐ क्लीं ह्रां ह्रीं ह्रूं ह्रैं हूँ : स्वाहा"
इस मंत्र का सौ बार जाप करे |

अब यहाँ से विष्णुसहस्त्रपाठ  की विधि शुरू होती है |
सर्वप्रथम इसका विनियोग करना है |
विनियोगः ॐ अस्य श्री विष्णोर्दिव्यसहस्त्रनामस्तोत्रमंत्रस्य भगवान् वेदव्यास ऋषिः | श्री विष्णुः परमात्मा देवता अनुष्टुप छन्दः | अमृतांशूद्भवो भानुरिति बीजम | देवकीनन्दनः स्रष्टेति शक्तिः | त्रिसामा सामग: सामेति हृदयं | शङ्खभृन्नन्दकी चक्रिति कीलकं शार्ङ्गधन्वा गदाधर इत्यस्त्रं | रथांगपाणिरक्षोभ्य इति कवचं | उद्भवः क्षोभणो देव इति परमोमन्त्रः | श्री महाविष्णु प्रीत्यर्थे जपे विनियोगः |
पश्चात् करन्यास-हृदयादिन्यास करने है |

करन्यास : ॐ विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठभां नमः | अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः | ब्रह्मण्यो ब्रह्मकृद ब्रह्मेति मध्यमाभ्यां नमः | सुवर्णबिन्दुरक्षोभ्य इत्यनामिकाभ्यां नमः | निमिषोनिमिषः स्त्रग्वीति कनिष्ठिकाभ्यां नमः | रथांगपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः |
हृदयादिन्यास : सुव्रतः सुमुखः सूक्ष्मः ज्ञानाय हृदयाय नमः | सहस्रमूर्धा विश्वात्मा ऐश्वराय शिरसे स्वाहा | सहस्त्रार्चिः सप्तजिह्व शक्त्यै शिखायै वौषट | त्रिसामा सामगः साम बलाय कवचाय हुम् | रथाङ्गपाणिरक्षोभ्य तेजसे नेत्राभ्यां वौषट | शार्ङ्गधन्वा गदाधरः वीर्याय अस्त्राय फट | ऋतुः सुदर्शनः कालः भूर्भुवः स्वरों | इति दिग्बन्धः |

पश्चात भगवान् विष्णु का ध्यान धरे |
ध्यान : सशङ्खचक्रं सकिरीट कुण्डलं सपीतवस्त्रं सरसीरुहेक्षणं |
          संहारवक्ष स्थल कौस्तुभ श्रियं नमामि विष्णुं शिरसाचतुर्भुजं ||
या फिर यह भी ध्यान कर सकते है |
ध्यान: शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं | विश्वाधारं गगनसदृशं मेघवर्णं शुभांगं |
        लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं | वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथं | |




ॐ नमो भगवते वासुदेवाय | 
ॐ यस्य स्मरण मात्रेण जन्मसंसार बंधनात् | 
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे || 1 || 

नमः समस्तभूताना मादिभूताय भूभृते | 
अनेकरूपरूपाय विष्णवे प्रभविष्णवे || 2 || 

वैशम्पायन उवाच 
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः |  
युधिष्ठिरः शांतनवं पुनरेवाभ्यभाषत || 3 || 

युधिष्ठिर उवाच 
किमेकं दैवतं लोके किं वाप्येकं परायणम् | 
स्तुवंतः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् || 4  || 

को धर्म सर्वधर्माणां भवतः परमो मतः | 
किं जपन्मुच्यते जन्तु र्जन्मसंसारबंधनात् || 5 || 

भीष्म उवाच 
जगत्प्रभुं देवदेवमनंतं पुरुषोत्तमम् | 
स्तुवन्नामसहस्त्रेण पुरुषः सततोत्थितः || 6 || 

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् | 
ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च || 7 || 

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् |
लोकध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् || 8 || 

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् |  
लोकनाथं महद्भूतं सर्वभूतभवोद् भवम् || 9 || 

एष मे सर्वधर्माणाम् धर्मोऽधिकतमो मतः | 
यद् भक्त्या पुंडरीकाक्षं स्तवैऱर्चेन्नरः सदा || 10 || 

परमं यो महत्तेजः परमं यो महत्तपः | 
परमं यो महद्ब्रह्म परमं यः परायणम् || 11 || 

पवित्राणां पवित्रं यो, मंगलानां च मंगलम् | 
दैवतं देवतानां च, भूतानां योऽव्ययः पिता || 12 || 

यतः सर्वाणि भूतानि, भवंत्यादियुगागमे | 
यस्मिंश्च प्रलयं यान्ति, पुनरेव युगक्षये || 13 || 

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते | 
विष्णोर्नामसहस्त्रं  श्रुणु पापभयापहम् || 14 || 

यानि नामानि गौणानि विख्यातानि  महात्मनः | 
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये || 15 || 

ॐ नमो भगवते वासुदेवाय 
ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः | 
भूतकृद् भूतभृद्  भावो भूतात्मा भूतभावनः || 16 || 

पूतात्मा परमात्मा च मुक्तानां परमागतिः | 
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च || 17 || 

योगो योगविदां नेता प्रधानपुरुषेश्वरः | 
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः || 18 || 

सर्वः शर्वः शिवः स्थाणु र्भूतादिर्नीधीरव्ययः | 
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः || 19 || 

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः | 
अनादिनिधनो धाता विधाता धातुरुत्तमः || 20 || 


अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः | 
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः || 21 || 

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः | 
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् || 22 || 

ईशानः प्राणदः प्राणो, ज्येष्ठः श्रेष्ठः प्रजापतिः | 
हिरण्यगर्भो भूगर्भो,माधवो मधुसूदनः || 23 || 

ईश्वरो विक्रमी धन्वी, मेधावी विक्रमः क्रमः | 
अनुत्तमो दुराधर्षः, कृतज्ञः कृतिरात्मवान् || 24 ||

सुरेशः शरणं शर्म, विश्वरेताः प्रजाभवः | 
अहः संवत्सरो व्यालः, प्रत्ययः सर्वदर्शनः || 25 || 

अजः सर्वेश्वरः सिद्धः, सिद्धिः सर्वादिरच्युतः | 
वृषाकपिरमेयात्मा, सर्वयोगविनिःसृतः || 26 || 

वसुर्वसुमनाः सत्यः, समात्मा संमितः समः | 
अमोघः पुंडरीकाक्षो, वृषकर्मा वृषाकृतिः || 27 || 

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः | 
अमृतः शाश्वतः स्थाणु र्वरारोहो महातपाः || 28 || 

सर्वगः सर्वविद्भानु र्विश्वक्सेनो जनार्दनः | 
वेदो वेदविदव्यंगों वेदांगो वेदवित् कविः || 29 || 

लोकाध्यक्षः सुराध्यक्षो, धर्माध्यक्षः कृताकृतः | 
चतुरात्मा चतुर्व्यूह श्चतुर्दंष्ट्रः श्चतुर्भुजः || 30 || 

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः | 
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः || 31 || 

उपेन्द्रो वामनः प्रांशु, रमोघः शुचिरूर्जितः |
अतींद्रः संग्रहः सर्गो, धृतात्मा नियमो यमः || 32 || 

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः | 
अतींद्रियो महामायो, महोत्साहो महाबलः || 33 || 

महाबुद्धिर्महावीर्यो, महाशक्तिर्महाद्युतिः | 
अनिर्देश्यवपुः श्रीमान् अमेयात्मामहाद्रिधृफ् || 34 || 

महेष्वासो महीभर्ता, श्रीनिवासः सतांगतिः | 
अनिरुद्धः सुरानंदो गोविंदो गोविदां पतिः || 35 || 

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः | 
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः || 36 || 

अमृत्युः सर्वद्रक् सिंहः , संधाता संधिमान् स्थिरः | 
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा || 37 || 

गुरुर्गुरुतमो धाम, सत्यः सत्यपराक्रमः | 
निमिषोऽनिमिषः स्त्रग्वी, वाचस्पतिरुदारधीः || 38 || 

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः | 
सहस्रमूर्धा विश्वात्मा सहस्त्राक्षः सहस्त्रपात् || 39 || 

आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः | 
अहः संवर्तको वह्नि रनिलो धरणीधरः || 40 || 


सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः | 
सत्कर्ता सत्कृतः साधु र्जह्नुर्नारायणो नरः || 41 || 

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः | 
सिद्धार्थः सिद्धिसंकल्पः सिद्धिदःसिद्धिसाधनः || 42 || 

वृषाही वृषभो विष्णु र्वृषपर्वा वृषोदरः | 
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः || 43 || 

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः | 
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः || 44 || 

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः |  
ऋद्धः स्पष्टाक्षरो मंत्र श्चन्द्रांशुर्भास्करद्युतिः || 45 || 

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः | 
औषधं जगतः सेतुः सत्यधर्मपराक्रमः || 46 || 

भूतभव्यभवन्नाथः पवनः पावनोऽनलः | 
कामहा कामकृत् कांतः कामः कामप्रदः प्रभुः || 47 || 

युगादिकृद्युगावर्तो नैकमायो महाशनः | 
अर्दश्योऽव्यक्तरूपश्च सहस्त्रजिदनंतजित् || 48 || 

इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः | 
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः || 49 || 

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः | 
अपां निधिरधिष्ठान मप्रमत्तः प्रतिष्ठितः || 50 || 

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः | 
वासुदेवो बृहद्भानु रादिदेवः पुरन्दरः || 51 ||  

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः | 
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः || 52  || 

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् | 
महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः || 53 || 

अतुलः शरभो भीमः समयज्ञो हविर्हरिः | 
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः || 54 || 

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः | 
महीधरो महाभागो वेगवानमिताशनः || 55 || 

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः | 
करणं कारणं कर्ता विकर्ता गहनों गुहः || 56 || 

व्यवसायों व्यवस्थानः संस्थानः स्थानदो ध्रुवः |  
परर्द्धिः परमः स्पष्टः स्तुष्टः पुष्टः शुभेक्षणः || 57 || 

रामो विरामो विरजो मार्गो नेयो नयोऽनयः | 
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः || 58 || 

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः | 
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः || 59 || 

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः | 
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः || 60 || 


विस्तारःस्थावरःस्थाणुः प्रमाणं बीजमव्ययम् | 
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः || 61 || 

अनिर्विण्णः स्थविष्ठोऽभू र्धर्मयूपो महामखः | 
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः || 62 || 

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः | 
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् || 63 || 

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् | 
मनोहरो जितक्रोधो वीर बाहुर्विदारणः || 64 || 

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् |
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः || 65 || 

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् |
अविज्ञाता सहस्त्रांशु र्विधाता कृतलक्षणः || 66 || 

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः | 
आदिदेवो महादेवो देवेशो देवभृद्गुरुः || 67 || 

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः | 
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरि दक्षिणः || 68 || 

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः | 
विनयो जयः सत्यसन्धो दाशार्ह: सात्वतांपतिः || 69 || 

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः | 
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः || 70 || 

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः | 
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः || 71 || 

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः | 
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतान्तकृत् || 72 || 

महावराहो गोविन्दः सुषेणः कनकाङ्गदि | 
गुह्यो गभीरो गहनों गुप्तश्चक्रगदाधरः || 73 || 

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः | 
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः || 74 || 

भगवान् भगहा नन्दी वनमाली हलायुधः | 
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः || 75 || 

सुधन्वा खण्डपरशु र्दारुणो द्रविणप्रदः | 
दिविस्पृक सर्वद्दृग्व्यासो वाचस्पतिर्योनिजः || 76 || 

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् | 
संन्यासकृच्छमः शांतो निष्ठा शांतिः परायणः || 77 ||

शुभाङ्गः शांतिदः स्त्रष्टा कुमुदः कुवलेशयः |
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः || 78 ||

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः |

श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः || 79 ||

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः |

श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः || 80 ||



स्वक्षः स्वंगः शतानंदो नन्दिर्ज्योतिर्गणेश्वरः |

विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः || 81 ||

उदीर्णः सर्वतश्चक्षु रनीशः शाश्वतस्थिरः |

भूशयो भूषणो भूति र्विशोकः शोकनाशनः || 82 ||

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः |
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः || 83 ||

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः |
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः || 84 ||

कामदेवः कामपालः कामीकान्तः कृतागमः |
अनिर्देश्यवपुर्विष्णु र्वीरोऽनन्तो धनञ्जयः || 85 ||

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा  ब्रह्म ब्रह्मविवर्धनः |
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः || 86 ||

महाक्रमो महाकर्मा, महातेजा महोरगः |
महाक्रतुर्महायज्वा महायज्ञो महाहविः || 87 ||

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः |
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः || 88 ||

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः |
वसुप्रदो वासुदेवो वसुर्वसुमना हविः || 89 ||

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः |
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः || 90 ||

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः |
दर्पहा दर्पदो दप्तो दुर्धरोऽथापराजितः || 91 ||

विश्वमूर्तिर्महामूर्ति र्दीप्तमूर्तिरमूर्तिमान् |
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः || 92 ||

ऐको नैकः सवः कः किं यत्तत्पदमनुत्तमम् |
लोकबन्धुर्लोकनाथो   माधवो भक्तवत्सलः || 93 ||



               सुवर्णवर्णो हेमांगो वरांगश्चंदनांगदी |                     
वीरहा विषमः शून्यो धृताशीरचलश्चलः  || 94 ||

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् | 
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः || 95 ||

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतांवरः |
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः || 96 ||

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः |
चतुरात्मा चतुर्भाव श्चतुर्वेदविदेकपात् || 97 ||

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः |
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा || 98 ||

शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः |
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः || 99 ||

उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः |
अर्को वाजसनः शृङ्गी जयंतः सर्वविज्जयी || 100 ||

सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः |
महाह्रदो महागर्तो महाभूतो महानिधिः || 101 ||

कुमुदः कुंदरः कुंदः पर्जन्यः पावनोऽनिलः |
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः || 102 ||

सुलभः सुव्रतः सिद्धः  शत्रुजिच्छत्रुतापनः |
न्याग्रोधोदुंबरोऽश्वत्थ श्चाणूरान्ध्रनिषूदनः || 103 ||

सहस्त्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः |
अमूर्तिरनघोऽचिंत्यो भयकृद् भयनाशनः || 104 ||

अणुर्बुहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् |
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्द्धनः || 105 ||

भारभृत् कथितो योगी योगीशः सर्वकामदः |
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः || 106 ||

धनुर्धरो धनुर्वेदो दंडो दमयिता दमः |
अपराजितः सर्वसहो नियंता नियमो यमः | 107 ||

सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः |
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः || 108 ||

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः |
रविर्विरोचनः सूर्यः सविता रविलोचनः || 109 ||

अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः |
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः || 110 ||

सनात्सनातनतमः कपिलः कपिरव्ययः |
स्वस्तिदःस्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः || 111 ||

अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः |
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः || 112 ||

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः |
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः || 113 ||

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्न नाशनः |
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः || 114 ||

अनंतरूपोऽनंतश्री र्जीतमन्युर्भयापहः |
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः || 115 ||

अनादिर्भूर्भुवो लक्ष्मीः सुविरो रूचिरांगदः |
जननो जनजन्मादि  र्भीमो भीम पराक्रमः || 116 ||

आधारनिलयो धाता पुष्पहासः प्रजागरः |
उर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः || 117 ||

प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः |
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः || ११८ ||

भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः |
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः || 119 ||

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग्यज्ञसाधनः |
यज्ञांतकृद् यज्ञगुह्य मन्नमन्नाद अेव च || 120 ||

आत्मयोनिः स्वयंजातो वैखानः सामगायनः |
देवकीनंदनः स्त्रष्टा क्षितीशः पापनाशनः || 121 ||

शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः |

रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः || 122 || 



|| सर्व प्रहरणायुघ ॐ नम इति ||

इतीदं कीर्तनीयस्य केशवस्य महात्मनः |    
नाम्नां सहस्त्रं दिव्याना मशेषेण प्रकीर्तितम् || 123 ||

य इदं श्रृणुयान्नित्यं यश्चापि परिकीर्तयेत् |
नाशुभं प्राप्नुयात् किंचित् सोऽमुत्रेह च मानवः || 124 ||

वेदान्तगो ब्राह्मणःस्यात् क्षत्रियो विजयीभवेत् |
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् || 125 ||

धर्मार्थीप्राप्नुयाद्धर्म मर्थार्थी चार्थमाप्नुयात् |
कामानवाप्नुयात् कामी प्रजार्थीप्राप्नुयात् प्रजाम् || 126 ||

भक्तिमान् यः सदोत्थाय शुचिस्तद् गतमानसः   |
सहस्त्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् || 127  ||

यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च |
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् || 128 ||

न भयं क्वचिदाप्नोति वीर्यं तेजश्चविंदति |
भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः || 129 ||

रोगार्तोमुच्यते रोगाद् बद्धो मुच्येतबन्धनात् |
भयान्मुच्येत  भीतस्तु मुच्येतापन्नआपदः || 130 ||

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् |
स्तुवन्नामसहस्त्रेण नित्यं भक्तिसमन्वितः || 131 ||

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः |
सर्वपापविशुद्धात्मा याति ब्रह्मसनातनम् || 132 ||

न वासुदेवभक्तानाम् अशुभं विद्यते क्वचित् |
जन्ममृत्युजराव्याधि भयं नैवोपजायते || 133 ||

इमं स्तवम धीयानः श्रद्धाभक्तिसमन्वितः |
युज्येतात्मसुखक्षान्ति श्रीधृतिस्मृतिकीर्तिभिः || 134 ||

न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः |
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे || 135 ||

द्यौ: सचन्द्रार्क नक्षत्रा खं दिशो भूर्महोदधिः
वासुदेवस्य वीर्येण विधृतानि महात्मनः || 136 ||

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् |
जगद्वशे वर्त्ततेदं कृष्णस्य सचराचरम् || 137 ||

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलंधृतिः |
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ अेव च || 138 ||

सर्वगमानामाचारः प्रथमं परिकल्पते |
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः || 139 ||

ऋष्यः पितरो देवा महाभूतानि धातवः |
जङ्गमा जङ्गमं चेदं जगन्नारायणोद्भवम् || 140 ||


योगोज्ञानं तथा सांख्यं विद्याः शिल्पादिकर्म च |
वेदाः शास्त्राणि विज्ञान मेतत्सर्वं जनार्दनात् || 141 ||

अेको विष्णुर्महद् भूतं पृथग् भूतान्यनेकशः |
त्रींल्लोकान्व्याप्य भूतात्मा भुंक्ते विश्वभुगव्ययः || 142 ||

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् |
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुंसुखानि च || 143 ||

विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् |
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् || 144 ||

|| अर्जुन उवाच || 

पद्मपत्रविशालाक्ष पद्मनाभ सुरोत्तम | 
भक्तानामनुरक्तानां त्राता भव जनार्दन || 145 || 

|| श्री भगवानुवाच || 

यो मां नामसहस्त्रेण स्तोतुमिच्छति पाण्डव | 
सोऽहमेकेन श्लोकेन स्तुत एव न संशयः || 146 || 

नमोऽस्त्वनन्ताय सहस्त्रमूर्तये सहस्त्रपादा क्षिशिरोरुबाहवे | 
सहस्रनाम्ने पुरुषाय शाश्वते सहस्त्र कोटि युगधारिणे नमः || 147 || 

नमः कमलनाभाय नमस्ते जलशायिने | 
नमस्ते केशवानन्त वासुदेव नमोऽस्तुते || 148 || 

वासनाद्वासुदेवस्य वासितं भुवनत्रयम् | 
सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तुते || 149 || 

नमो ब्रहमण्यदेवाय गो ब्राह्मणहिताय च | 
जगद्विताय कृष्णाय  गोविन्दाय नमो नमः || 150 || 

आकाशात्पतितं तोयं यथा गच्छति सागरम् | 
सर्वदेवनमस्कारः केशवं प्रति गच्छति || 151 || 

एष निष्कण्टकः पंथा यत्र सम्पूज्यते हरिः | 
कुपथं तं विजानीयाद् गोविन्दरहितागमम् || 152 || 

सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् | 
तत् फलं समवाप्नोति स्तुत्वा देवं जनार्दनम् || 153 || 

यो नरः पठते नित्यं त्रिकालं केशवालये | 
द्विकालमेककालं वा क्रूरं सर्वं व्यपोहति || 154 || 

दह्यं ते रिपवस्तस्य सौम्याः सर्वे सदा ग्रहाः | 
विलीयन्ते च पापानि स्तवे ह्यस्मिन् प्रकीर्तिते || 155 || 

येन ध्यातः श्रुतो येन येनायं पठ्यते स्तवः | 
दत्तानि सर्वदानानि सुराः सर्वे समर्चिताः  || 156 || 

इह लोके परे वापि न भयं विद्यते क्वचित् | 
नाम्नां सहस्त्रं योऽधीते द्वादश्यां मम सन्निधौ || 157 || 

शनैर्दहति पापानि कल्पकोटिशतानि च | 
अश्वत्थसन्निधौ पार्थः तुलसीसन्निधौ तथा || 158 || 

पठेन्नामसहस्त्रं तु गवां कोटिफलं लभेत् | 
शिवालये पठेन्नित्यं तुलसीवनसंस्थितः || 159 || 

नरो मुक्तिमवाप्नोति चक्रपाणेर्वचो यथा | 
ब्रह्महत्यादिकं घोरं सर्वपापं विनश्यति || 160 || 

वनमाली गदी शांर्गी शङ्खी चक्री नंदकी | 
श्रीमन्नारायणो विष्णुः वासुदेवोऽभिरक्षतु || 161 || 


|| इति श्रीमन्महाभारते शतसाहस्त्रायां संहितायां वैयासिक्यामानुशासनिके पर्वाणि दानधर्मे भीष्मयुधिष्ठिरसम्वादे श्री विष्णोर्दीव्यसहस्त्रनाम स्तोत्रं सम्पूर्णम || 

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

1 Comments

  1. Please correct the shap vimochan mantra .
    It's om klim hram hrim hrum hraing hraung hrah swaha.
    And in Kar nyas of shap vimochan netratrayay vakhat should be given at the place of netratrayay namah.

    Keep doing great 👍.
    Pranam

    ReplyDelete
Previous Post Next Post