बिल्वाष्टक स्तोत्र | Bilvashtakm |

 

बिल्वाष्टक स्तोत्र

 बिल्वाष्टक स्तोत्र


ॐ श्री गणेशाय नमः |
ॐ नमः शिवाय |
ॐ त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् |
त्रिजन्म पाप संहारमेकबिल्वंशिवार्पणम् || १ ||

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैस्तथा |
शिवपूजां करिष्यामि ह्येकबिल्वंशिवार्पणम् || २ ||

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे |
शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वंशिवार्पणम् || ३ ||

शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत् |
सोमयज्ञमहापुण्यमेकबिल्वंशिवार्पणम् || ४ ||

( दन्त )दन्तिकोटिसहस्त्राणि ह्यश्वमेधशतानि च |
कोटिकन्यामहादानमेकबिल्वंशिवार्पणम् || ५ ||

लक्ष्म्याः स्तनत उत्पन्नं महादेवसदाप्रियम् |
बिल्वपत्रं प्रयच्छामि ह्येकबिल्वंशिवार्पणम् || ६ ||

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् |
अघोरपापसंहारमेकबिल्वंशिवार्पणम् || ७ ||

मूलतो  ब्रह्मरूपाय मध्यतो विष्णुरूपिणे |
अग्रतः शिवरूपाय ह्येकबिल्वंशिवार्पणम् || ८ ||

बिल्वाष्टकमिदं पुण्यं यः पठेच्छिव सन्निधौ |
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् || ९ ||


|| इति श्री बिल्वाष्टक स्तोत्र सम्पूर्णं ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post