गायत्री कवच | Gayatri Kavach |


गायत्री कवच 

गायत्री कवच 


अस्य श्रीगायत्रीकवचस्तोत्रमंत्रस्य ब्रह्म - विष्णु

महेश्वरा ऋषयः, ऋग्

यजुः - साम अथर्वाणि छन्दांसि, परब्रह्मस्वरुपिणी गायत्री देवता

तद् बीजम्, भर्गः शक्तिः धियः 

किलकम्, मोक्षार्थे जपे विनियोगः


ॐ तत्सवितुर्बह्मात्मने हृदयाय नमः |  

ॐ वरेण्यं विष्ण्वात्मने शिरसे स्वाहा | 

ॐ भर्गो देवस्य रुद्रात्मने शिखायै वैाषट् | 

ॐ धीमहि ईश्वरात्मने कवचाय हुम् |    


चतुर्भिहृदयं प्रोक्तं त्रिभिर्वर्णैः शिरः स्मृतम्

चतुर्भिः स्याच्छिरवा पश्चात् त्रिभिस्तु कवचं स्मृतम् || 

चतुर्भिर्नेत्रमुद्दिष्टं चतुर्भिः स्यात्तदस्त्रकम् || 


मुक्ता - विद्रुम - हेम - नील - धवलच्छायैर्मुरवैस्त्रीक्षणैर 

युक्तामिन्दुकला - निबद्धमुकुटां तत्त्वार्थवर्णात्मिकाम्

गायत्रीं वरदा - भयांकुशकशाः शुभ्रं कपालं गुणम् 

शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे || 


|| अथ कवचं || 

गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे | 

ब्रह्मसंध्या तु मे पश्चादुत्तरस्यां सरस्वती || || 


पार्वती मे दिशं रक्षेत् पावकी जलशायिनी

यातुधानी दिशं रक्षेद् यातुधानभयंकरी || || 


पावमानी दिशं रक्षेत् पवमान विलासिनी

दिशं रौद्रीं मे पातु रुद्राणी रुद्ररूपिणी || ||    


ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद् वैष्णवी तथा

एवं दश दिशो रक्षेत् सर्वांगं भुवनेश्वरी || || 


तत्पदं पातु मे पादौ जंघे मे सवितुः पदम्

वरेण्यं कटिदेशे तु नाभिं भर्गस्तथैव || || 


देवस्य मे तद् हदयं धीमहीति गल्लयोः

धियः पदं मे नेत्रे यः पदं मे ललाटकम् || || 


नः पातु मे पदं मूर्ध्नि शिखायां मे प्रचोदयात्

तत्पदं पातु मूर्धानं सकारः पातु भालकम् || || 


चक्षुषी तु विकारार्णस्तुकारस्तु कपोलयोः

नासापुटं वकारार्णो रेकारस्तु मुखे तथा || || 


णिकार ऊर्ध्वमोष्ठं तु यकारस्त्वधरोष्ठकम्

आस्यमध्ये मकारार्णो र्गोकारश्चुबुके तथा || || 


देकारः कण्ठदेशे तु वकारः स्कन्धदेशकम्

स्यकारो दक्षिणं हस्तं धिकारो वामहस्तकम् || १० || 


मकारो हृदयं रक्षेद्धिकार उदरे तथा

धिकारो नाभिदेशे तु योकारस्तु कटिं तथा || ११ || 


गुह्यं रक्षतु योकार ऊरु द्वौ नःपदाक्षरम्

प्रकारो जानुनी रक्षेच्चोकारो जंघदेशकम् || १२ || 


दकारं गुल्फदेशे तु यकारः पदयुग्मकम्

तकारो व्यंजनं चैव सर्वांगे मे सदाऽवतु || १३ || 


इदं तु कवचं दिव्यं बाधाशतविनाशनम्

चतुःषष्टिकलाविद्यादायकं मोक्षकारकम् || १४ || 


मुच्यते सर्वपापेभ्यः परंब्रह्माधिगच्छति

पठनाच्छ्रवणाद्धापि गोहसस्त्रफलं लभेत् || १५ || 


|| इति गायत्रीकवचं सम्पूर्णम् ||   

karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post