श्री गायत्री हृदय | Shree Gayatri Hridayam |

 

श्री गायत्री हृदयम्

श्री गायत्री हृदय 

श्री नारायण उवाच 

देव्याश्च हृदयं प्रोक्तं नारदाथर्वणे स्फुटम् | 
तदेवाहं प्रवक्ष्यामि रहस्यातिरहस्यकम् || १ || 

विराड्रूपां महादेवीं गायत्रीं वेदमातरम् | 
ध्यात्वा तस्यास्त्वथांगेषु ध्यायेदेताश्च देवताः || २ || 

पिंडब्रह्माण्डयोरैक्याद्भावयेत् स्वतनौ तथा | 
देविरुपे निजे देहे तन्मयत्वाय साधकः || ३ || 

नादेवोऽम्यर्चयेद्देवमिति वेदविदो विदुः | 
ततोऽमेदाय काये स्वे भावयेद्देवता इमाः || ४ || 

अथ तस्यंप्रवक्ष्यामि तन्मयत्वमयो भवेत् | 
गायत्रीहृदयस्याप्यहमेव ऋषिः स्मृतः || ५ || 

गायत्रीच्छन्द उद्दिष्टं देवता परमेश्वरी | 
पूर्वोक्तेन प्रकारेण कुर्यादङ्गानि षट्क्रमात् | 
आसने विजने देशे ध्यायेदेकाग्रमानसः || ६ || 

अथ न्यासः

 || द्यौर्मूर्ध्नि दैवतम् || 
दंतपंक्तावश्विनौ || 
उभे संध्ये चौष्ठौ || मुखमग्निः || जिह्वा सरस्वती || 
ग्रीवायां तु बृहस्पतिः || 
स्तनयोर्वसवोडष्टौ || बाह्वौरमृतः || हृदये पर्जन्यः || 
आकाशमुदरम् || नाभावंतरिक्षम् || 
कट्योरिन्द्राग्नी || 
जघने विज्ञानधनः प्रजापतिः || कैलासमलये ऊरु || 
विश्वेदेवा जान्वोः || 
जंघायां कौशिकः || गुह्यमयने || ऊरु पितरः || 
पादौ पृथिवी || वनस्पतयोड्गुलीषु || 
ऋषयो रामाणि || 
नखानि मुहूर्तानि || अस्थिषु ग्रहाः || असृङ्मांसमृतवः || 
संवत्सरा वे निमिषम् || 
अहोरात्रावादित्यश्चन्द्रमाः || 

प्रवरां दिव्यां गायत्रीं सहस्त्रनेत्रां शरणमहं प्रपद्ये || 
ॐ तत्सवितुर्वरेण्याय नमः || 
ॐ तत्पूर्वाजयाय नमः ||
 तत्प्रातरादित्याय नमः ||  
 तत्प्रातरादित्यप्रतिष्ठायै नमः || 

प्रातरधियानां रात्रिकृतं पापं नाशयति || 
सायमधीयानोदिवसकृतं पापं नाशयति || 
सायंप्रातरधीयानः अपापो भवति || सर्वतीर्थेषु स्नातो भवति || 
सर्वदेवैर्ज्ञातो भवति || 

अवाच्यवचनात्पूतो भवति || अभक्ष्यभक्षणात्पूतो भवति || 
अभोज्यभोजनात्पूतो भवति || अचोष्यचोषणात्पूतो भवति || 
असाध्यसाधनात्पूतो भवति || 
दुष्प्रतिग्रहशतसहस्त्रात्पूतो भवति ||    
सर्वप्रतिग्रहात्पूतो भवति || पंक्तिदूषणात्पूतो भवति || 
अनृतवचनात्पूतो भवति || 
अथाब्रह्मचारी ब्रह्मचारी भवति || 

अनेन हृदयेनाधीतेन क्रतुसहस्त्रेणेष्टं भवति ||
षष्टिशतसहस्त्रगायत्र्या जप्यानि फलानि भवन्ति ||  
अष्टौ ब्राह्मणान् सम्यग्ग्राहयेत् || तस्य सिद्धिर्भवति || 
य इदं नित्यमधीयानो ब्राह्मणः प्रातः शुचिः सर्वपापैः प्रमुच्यत इति || 
ब्रह्मलोके महीयते || 
इत्याह भगवान् श्रीनारायणः || 

|| अस्तु || 


         
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post