श्री लघु सूर्य कवचम् | Shree Laghu Surya Kavacham |


श्री लघु सूर्य कवचम्  

श्री लघु सूर्य कवचम्  


याज्ञवल्क्य उवाच  | 

शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् | 
शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् || १ ||  

देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् | 
ध्यात्वा सहस्त्रकिरणं स्तोत्रमेतदुदीरयेत् || २ || 

शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः | 
नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः || ३ || 

घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः | 
जिह्वां में मानदः पातु कण्ठं मे सुखवन्दितः || ४ || 

स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः | 
पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः || ५ || 

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भुर्जपत्रके |
दधाति यः करे तस्य वशगाः सर्वसिद्धयः || ६ || 

सुस्नातो यो जपेत्सम्यग्योऽधीते स्वस्थमानसः | 
स रोगमुक्तो दीर्घायुः सुखं पुष्टि च विन्दति || ७ || 

ॐ नारायणाय विद्महे शेषशायिने 
धीमहि तन्नो विष्णुः प्रचोदयात् || 

|| श्री याज्ञवल्क्य मुनि विरचितं सूर्य कवच स्तोत्रम् सम्पूर्णम् || 
  

 

Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post