असितकृतं शिवस्तोत्रम् | Asitkrutam Shiv Stotra |

 

असितकृतं शिवस्तोत्रम् 

असितकृतं शिवस्तोत्रम् 


श्री असित उवाच 

जगद्गुरो नमस्तुभ्यं शिवाय शिवदाय च | 
योगिन्द्राणां च योगीन्द्र गुरुणां गुरवे नमः || १ || 

मृत्योर्मृत्युस्वरुपेण मृत्युसंसारखंडन | 
मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु || २ || 

कालरुपं कलयतां कालकालेश कारण | 
कालादतीत कालस्य कालकाल नमोऽस्तु || ३ || 

गुणातीत गुणाधार गुणबीज गुणात्मकं | 
गुणीश गुणिनां बीज गुणिनां गुरवे नमः || ४ || 

ब्रह्मस्वरुप ब्रह्मज्ञ ब्रह्मभावनतत्पर | 
ब्रह्मबीजस्वरुपेण ब्रह्मबीज  नमोऽस्तु ते || ५ || 

इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः | 
दीनवत् साश्रुनेत्रश्च पुलकाञ्जितविग्रहः || ६ || 

असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् | 
वर्षमेकं हविश्याशी शङ्करस्य महात्मनः || ७ || 

स लभेद् वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् | 
भवेदधनाढ्यो दुःखी च मूको भवति पण्डितः || ८ || 

अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् | 
इहलोके सुखं भुक्त्वा यात्यन्ते शिवसंनिधिम् || ९ || 

|| इति श्रीब्रह्मवैवर्तपुराणे असितकृतं शिवस्तोत्रं सम्पूर्णम् ||   
   
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post