रात्रि सूक्तम | Ratri suktam |


 रात्रि सूक्तम

रात्रि सूक्तम 



ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकरिणीम् |
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः || १ ||

ब्रह्मोवाच
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारस्वरात्मिका |
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता || २ ||

अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः |
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा || ३ ||

त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् |
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा || ४ ||
 
विसृष्टो सृष्टिरुपा त्वं स्थितिरुपा च पालने |
तथा संहृतिरुपान्ते जगतोऽस्य जगन्मये || ५ ||

महाविद्या महामाया महामेधा महास्मृतिः |
महामोहा च भवती महादेवी महेष्वरि  || ६ ||

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनि |
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा || ७ ||

त्वं श्रीस्त्वमिश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा |
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षन्तिरेव च || ८ ||

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा |
शङ्खिनी चापिनी बाणभुशुण्डी परिधायुधा || ९ ||

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी | 
परापराणां परमा त्वमेव परमेश्वरी || १० ||

यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके |
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया || ११ ||

यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् |
सोऽपि निद्रावशं नितः कस्त्वां स्तोतुमिहेश्वरः || १२ ||

विष्णुः शरीरग्रहणामहमीशान एव च |
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् || १३ ||

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता |
मोहयैतैा दुराधर्षावसुरौ मधुकैटभौ || १४ ||

प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु |
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ || १५ ||

|| इति तन्त्रोक्तं रात्रिसूक्तं सम्पूर्णम् ||p
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post