यम स्तोत्रम् | Yam Stotram |


यम स्तोत्रम्  

यम स्तोत्रम् 


ऋषिपुत्र उवाच 

त्वं धाता च विधाता च श्राद्धे चैव हि दृश्यसे | 
पितृणां परमो देवः चतुष्पाद नमोऽस्तु ते || 

कालज्ञश्च कृतज्ञश्च सत्यवादी दृढव्रतः | 
प्रेतनाथ महाभाग धर्मराज नमोऽस्तु ते || 

कर्ता कारयिता चैव भूतभव्यभवत् प्रभो | 
पावको मोहनश्चैव संक्षेपो विस्तरस्तथा | 
दंडपाणे विरुपाक्ष पाशहस्त नमोऽस्तु ते || 

आदित्यसदृशाकार सर्वजीवहर प्रभो | 
कृष्णवर्ण दुराधर्ष तैलरुप नमोऽस्तु ते || 

मार्तण्ड सदृश श्रीमान् मार्तण्डसम तेजसा | 
हव्यकव्यवहः त्वं हि प्रभविष्णो नमोऽस्तु ते || 

पापहन्ता व्रती श्राद्धी नित्ययुक्तो महातपाः | 
एकदृग् बहुदृग् भूत्वा काल मृत्यो नमोऽस्तु ते || 

क्वचित् दण्डी क्वचित् मुंडी क्वचित् कालो दुरासदः | 
क्वचित्  बालः क्वचित्  वृद्धः क्वचित्  रौद्र नमोऽस्तु ते || 

त्वया विराजितो लोकः शासता धर्महेतुना | 
प्रत्यक्षं दृश्यते देव त्वद्विना न च सिद्धयति || 

देवानां परमं दैवं तपसां परमं तपः | 
जपानां परमं जप्यं त्वत्तः चान्यो न दृश्यते || 

ऋषयो वा तथा क्रुद्धा हतबन्धु सुहृज्जनाः | 
पतिव्रतास्तु या नार्यो दुःखिताः तपसि स्थिताः | 
नत्वा शक्ता इह स्थानात् पातनाय कदाचन || 

तस्मात् त्वं सर्वदेवेषु एको धर्मभृतां वरः | 
कृतज्ञः सत्यवादी च सर्वभूतहिते रतः || 

|| यम स्तोत्रम् || 
 
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post