शिव स्तुतिः | Shiv Stuti |

 

शिव स्तुतिः

शिव स्तुतिः

 स्कन्द उवाच 

नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय | 
नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय || १ || 

नमो भवायास्तु भवोद्भवाय नमोऽस्तु ते घ्वस्तमनोभवाय | 
नमोऽस्तु ते गूढमहाव्रताय नमोऽस्तु मायागहनाश्रयाय || २ || 

नमोऽस्तु शर्वाय नमः शिवाय नमोऽस्तु सिद्धाय पुरातनाय | 
नमोऽस्तु कालाय नमः कलाय नमोऽस्तु ते कालकलातिगाय || ३ || 

नमो निसर्गात्मक भूतिकाय नमोऽस्त्वमेयोक्षमहर्द्धिकाय | 
नमः शरण्याय नमोऽगुणाय नमोऽस्तु ते भीमगुणानुगाय || ४ || 

नमोऽस्तु नानाभुवाधिकर्त्रे नमोऽस्तु भक्ताभिमतप्रदात्रे | 
नमोऽस्तु कर्मप्रसवाय धात्रे नमः सदा ते भगवन् सुकर्त्रे || ५ || 

अनन्तरूपाय सदैव तुभ्यमसह्यकोपाय सदैव तुभ्यंम् | 
अमेयमानाय नमोऽस्तु तुभ्यं वृषेन्द्रयानाय नमोऽस्तु तुभ्यम् || ६ || 

नमः प्रसिद्धाय महौषधाय नमोऽस्तु ते व्याधिगणापहाय | 
चराचरायाथ विचारदाय कुमारनाथाय नमः शिवाय || ७ || 

ममेश भूतेश महेश्वरोऽसि कामेश वागीश बलेश धीश | 
क्रोधेश मोहेश परापरेश नमोऽस्तु मोक्षेश गुहाशयेश || ८ || 

शिव उवाच 

ये च सायं तथा प्रातस्त्वत्कृतेन स्तवेन माम् | 
स्तोष्यन्ति परया भक्त्या शृणु तेषां च यत्फलम् || ९ || 

न व्याधिर्न च दारिद्र्यं न चैवेष्टवियोजनम् | 
भुक्त्वा भोगान् दुर्लभांश्च मम यास्यन्ति सद्म ते || १० || 

|| इति श्री स्कन्दमहापुराणे कुमारिकाखण्डे शिवस्तुतिः सम्पूर्णा || 
           
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post