गौरीश्वर स्तुतिः | Gouriswar Stuti |

 

गौरीश्वर स्तुतिः

गौरीश्वर स्तुतिः


दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावको
दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव |
तस्माद् द्यूतविधौ त्वयाऽद्य मुषितो हारः परित्यज्यता
मित्यं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तुवः || १ ||

श्रीकण्ठस्य सकृत्तिकार्द्रभरणी मूर्तिः सदा रोहिणी 
ज्येष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता | 
दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कता
श्रेयो वै श्रवणान्विता भगवतो नक्षत्रपालीव वः || २ ||

एषा ते हर का सुगात्रि कतमा मूर्घ्नि स्थिता किं जटा
हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते |
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते
एवं यो विनिगूहते त्रिपथगां पायात् स वः शङ्करः || ३ ||

|| इति गौरीश्वर स्तुतिः सम्पूर्णा ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post