श्री शिव जटाजूट स्तुतिः
 |
| श्री शिव जटाजूट स्तुतिः |
स धूर्जटिजटाजूटो जायतां विजयाय वः |
यत्रैकपलितभ्रान्तिं करोत्यद्यापि जाह्नवी || १ ||
चुडापीडकपालसंकुलगलन्मन्दाकिनीवारयो
विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः |
पान्तु त्वामकठोरकेतकशिखासंदिग्धमुग्धेन्दवो
भूतेशस्य भूजङ्गवल्लिवलयस्त्रङ्नद्धजूटा जटाः || २ ||
गङ्गावारिभीरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिखा
रत्नैः कोरकिताः सितांशुकलया स्मेरैकपुष्पश्रियः |
आनन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैर्मिलद्दोहदा
नाल्पं कल्पलताः फलं ददतु वोऽभीष्टं जटा धूर्जटेः || ३ ||
|| इति श्री शिव जटाजूट स्तुतिः सम्पूर्णाः ||