श्री शिव जटाजूट स्तुतिः | Shree Shiv Jatajut Stuti |


श्री शिव जटाजूट स्तुतिः

श्री शिव जटाजूट स्तुतिः

स धूर्जटिजटाजूटो जायतां विजयाय वः | 
यत्रैकपलितभ्रान्तिं करोत्यद्यापि जाह्नवी || १ || 

चुडापीडकपालसंकुलगलन्मन्दाकिनीवारयो  
विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः |
पान्तु त्वामकठोरकेतकशिखासंदिग्धमुग्धेन्दवो
भूतेशस्य भूजङ्गवल्लिवलयस्त्रङ्नद्धजूटा जटाः || २ ||

गङ्गावारिभीरुक्षिताः फणिफणैरुत्पल्लवास्तच्छिखा
रत्नैः कोरकिताः सितांशुकलया स्मेरैकपुष्पश्रियः |
आनन्दाश्रुपरिप्लुताक्षिहुतभुग्धूमैर्मिलद्दोहदा
नाल्पं कल्पलताः फलं ददतु वोऽभीष्टं जटा धूर्जटेः || ३ ||

|| इति श्री शिव जटाजूट स्तुतिः सम्पूर्णाः ||

Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post