ads

श्री शिवापराधक्षमापनस्तोत्र | Shree Shivaparadhakshmapan Stotra |

 

श्री शिवापराधक्षमापनस्तोत्र 

श्री शिवापराधक्षमापनस्तोत्र 



आदौ कर्मप्रसङ्गत् कलयति कलुषं मातृकुक्षौ स्थितं मां 
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः | 
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिवशिवशिव भो श्रीमहादेव शम्भो || १ || 

बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा 
नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिता जन्तवो मां तुदन्ति | 
नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि 
क्षन्तव्यो मेऽपराधः शिवशिवशिव भो श्रीमहादेव शम्भो || २ || 

प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ 
दष्टो नष्टो विवेकः सुतधनयुवतिस्वादसौख्ये निषण्णः | 
शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरुढं 
क्षन्तव्यो मेऽपराधः शिवशिवशिव भो श्रीमहादेव शम्भो || ३ || 

वार्द्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापैः 
पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढिहीनं च दीनम् | 
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं 
क्षन्तव्यो मेऽपराधः शिवशिवशिव भो श्रीमहादेव शम्भो || ४ || 

नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं 
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे सुसारे | 
नास्था धर्मे विचारः श्रवणमननयोः किं निदिध्यासितव्यं 
क्षन्तव्यो मेऽपराधः शिवशिवशिव भो श्रीमहादेव शम्भो || ५ || 

स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं 
पूजार्थं वा कदाचिद्बहुतरगहनात् खण्डबिल्वीदलानि | 
नानीता पद्ममाला सरसि विकसिता गन्धपुष्पे त्वदर्थं 
क्षन्तव्यो मेऽपराधः शिवशिवशिव भो श्रीमहादेव शम्भो || ६ || 

दुग्धैर्मध्वाज्ययुक्तैर्दधिसितसहितैः स्नापितं नैव लिङ्गं 
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः | 
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः 
क्षन्तव्यो मेऽपराधः शिवशिवशिव भो श्रीमहादेव शम्भो || ७ || 

ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो 
हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः | 
नो तप्तं गाङ्गतीरे व्रतजपनियमै रुद्रजाप्यैर्न वेदैः 
क्षन्तव्यो मेऽपराधः शिवशिवशिव भो श्रीमहादेव शम्भो || ८ || 

स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुण्डले सूक्ष्ममार्गे 
शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरुपे पराख्ये | 
लिङ्गज्ञे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि 
क्षन्तव्यो मेऽपराधः शिवशिवशिव भो श्रीमहादेव शम्भो || ९ || 

नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो 
नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् | 
उन्मन्यावस्थया त्वां विगतकलिमलं शंकरं न स्मरामि 
क्षन्तव्यो मेऽपराधः शिवशिवशिव भो श्रीमहादेव शम्भो || १० || 

चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शंकरे 
सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे | 
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे 
मोक्षार्थं कुरु चित्तवृत्तिखिलामन्यैस्तु किं कर्मभिः || ११ || 

किं वानेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं 
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् | 
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः 
स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् || १२ || 

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं 
प्रत्यायान्ति पनर्न दिवसाः कालो जगद्भक्षकः | 
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं 
तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना || १३ || 

कवचरणकृतं वाक्कायजं कर्मजं वा 
श्रवणनयनजं वा मानसं वाऽपराधम् | 
विहितमविहितं वा सर्वमेतत् क्षमस्व 
जय जय करुणाब्धे श्रीमहादेव शम्भो || १४ || 

|| इति श्री मच्छङ्कराचार्यविरचितं श्री शिवापराधक्षमापनस्तोत्रं सम्पूर्णम् ||

     
       
   

    
श्री शिवापराधक्षमापनस्तोत्र | Shree Shivaparadhakshmapan Stotra | श्री शिवापराधक्षमापनस्तोत्र | Shree Shivaparadhakshmapan Stotra |  Reviewed by karmkandbyanandpathak on 1:34 PM Rating: 5

No comments:

Powered by Blogger.