मृतसञ्जीवन कवच | Mrutsanjivn Kavach |

 

मृतसञ्जीवन कवच

मृतसञ्जीवन कवच



एवमाराध्य गौरीशं देवं मृत्युञ्जयेश्वरम् |
मृतसञ्जीवनं नाम कवचं प्रजपेत् सदा || १ ||

सारात् सारतरं पुण्यं गुह्याद् गुह्यतरं शुभम् |
महादेवस्य कवचं मृतसञ्जीवनाभिधम् || २ ||

समाहितमना भूत्वा शृणुष्व कवचं शुभम् |
श्रुत्वैतद् दिव्यकवचं रहस्यं कुरु सर्वदा || ३ ||

जराभयकरो यज्वा सर्वदेवनिषेवितः |
मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा || ४ ||

दधानः शक्तिमभयां त्रिमुखः षड्भुजः प्रभुः |
सदाशिवोऽग्निरुपी मामाग्नेय्यां पातु सर्वदा || ५ ||

अष्टादशभुजोपेतो दण्डाभयकरो विभुः |
यमरुपी महादेवो दक्षिणस्यां सदाऽवतु || ६ ||

खड्गाभयकरो धीरो रक्षोगणनिषेवितः |
रक्षोरुपी महेशो मां नैरृत्यां सर्वदाऽवतु || ७ ||

पाशाभयभुजः सर्वरत्नाकरनिषेवितः |
वरुणात्मा महादेवः पश्चिमे मां सदाऽवतु || ८ ||

गदाभयकरः प्राणनायकः सर्वदागतिः |
वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा || ९ ||

शङ्खाभयकरस्थो मां नायकः परमेश्वरः |
सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः || १० ||

शूलाभयकरः सर्वविद्यानामधिनायकः |
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः || ११ ||

उर्ध्वभागे ब्रह्मरुपी विश्वात्माऽधः सदाऽवतु |
शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः || १२ ||

भ्रूमध्यं सर्वलोकेशस्त्रिनेत्रोऽवतु लोचने |
भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः || १३ ||

नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः |
जिह्वां मे दक्षिणामूर्तिर्दन्तान् मे गिरिशोऽवतु || १४ ||

मृत्युञ्जयो मुखं पातु कण्ठं मे नागभूषणः |
पिनाकी मत्करौ पातु त्रिशूली हृदयं मम || १५ ||

पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः |
नाभिं पातु विरूपाक्षः पार्श्वे मे पार्वतीपतिः || १६ ||

कटिद्वयं गिरिशो मे पृष्ठं मे प्रमथाधिपः |
गुह्यं महेश्वरः पातु ममोरु पातु भैरवः || १७ ||

जानुनी मे जगद्धर्ता जङ्घे मे जगदम्बिका |
पादौ मे सततं पातु लोकवन्द्यः सदाशिवः || १८ ||

गिरिशः पातु मे भार्यां भवः पातु सुतान् मम |
मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः || १९ ||

सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः |
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् || २० ||

मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् |
सहस्त्रावर्तनं चास्य पुरश्चरणमीरितम् || २१ ||

यः पठेच्छृणुयान्नित्यं श्रावयेत् सुसमाहितः |
सोऽकालमृत्युं निर्जित्य सदायुष्यं समश्नुते || २२ ||

हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ |
आधयो व्याधयस्तस्य न भवन्ति कदाचन || २३ ||

कालमृत्युमपि प्राप्तमसौ जयति सर्वदा |
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः || २४ ||

युद्धारम्भे पठित्वेदमष्टाविंशतिवारकम् |
युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते || २५ ||

न ब्रम्हादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै |
विजयं लभते देवयुद्धमध्येऽपि सर्वदा || २६ ||

प्रातरुत्थाय सततं यः पठेत् कवचं शुभम् |
अक्षय्यं लभते सौख्यमिह लोके परत्र च || २७ ||

सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः |
अजरामरणो भूत्वा सदा षोडशवार्षिकः || २८ ||

विचरत्यखिलाँल्लोकान् प्राप्य भोगांश्च दुर्लभाम् |
तस्मादिदं महागोप्यं कवचं समुदाहृतम् |
मृतसञ्जीवनं नाम्ना दैवतैरपि दुर्लभम् || २९ ||

|| इति मृतसञ्जीवन कवचं सम्पूर्णम् ||
Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post