पशुपति स्तोत्र | Pashupati Stotra |

 

पशिपति स्तोत्र 

पशुपति स्तोत्र 


स पातु वो यस्य जटाकलापे 
स्थितः शशाङ्कः स्फुटहारगौरः | 
नीलोत्पलानामिव नालपुञ्जे 
निद्रायमाणः शरदीव हंसः || १ || 

जगत्सिसृक्षाप्रलयक्रियाविधौ 
प्रयत्नमुन्मेषनिमेषविभ्रमम् | 
वदन्ति यस्येक्षण लोलपक्ष्मणां 
पराय तस्मै परमेष्ठिने नमः || २ || 

व्योम्नीव नीरदभरः सरसीव वीचि
व्यूहः सहस्त्रमहसीव सुधांशुधाम | 
यस्मिन्निदं जगदुदेति च लीयते च 
तच्छाम्भवं भवतु वैभवमृद्धये वः || ३ || 

यः कन्दुकैरिव पुरन्दरपद्मसद्म
पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः | 
खेलत्यलङ्घयमहिमा स हिमाद्रिकन्या 
कान्तः कृतान्तदलनो गलयत्वंघं वः || ४ || 

दिश्यात् स शीतकिरणाभरणःशिवं वो 
यस्योत्तमाङ्गभुवि विस्फुरदुर्मिपक्षा | 
हंसीव निर्मलशशाङ्ककलामृणाल 
कन्दार्थिनी सुरसरिन्नभतः पपात || ५ || 

|| इति पशुपति स्तोत्रम् सम्पूर्णम् || 
        

Chalo satsang kariye

આચાર્ય શ્રી આનંદકુમાર પાઠક સાહિત્યાચાર્ય-સંસ્કૃતમાં B.a-M.a ૨૫ વર્ષની અવિરત યાત્રા બ્રહ્મરત્ન પુરસ્કાર વિજેતા - ૨૦૧૫ શાસ્ત્રી - આચાર્ય - ભૂષણ - વિશારદ કર્મકાંડ ભૂષણ -કર્મકાંડ વિશારદ જ્યોતિષ ભૂષણ - જ્યોતિષ વિશારદ

Post a Comment

Previous Post Next Post