शिवषडक्षर स्तोत्र
ॐकारं विन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः | 
कामदं मोक्षदं चैव ॐकाराय नमो नमः || १ || 
नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः | 
नरा नमन्ति देवेशं नकाराय नमो नमः || २ || 
महादेवं महात्मानं महाध्यानपरायणम् | 
महापापहरं देवं मकाराय नमो नमः || ३ || 
शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् | 
शिवमेकपदं नित्यं शिकाराय नमो नमः || ४ || 
वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् | 
वामे शक्तिधरं देवं वाकाराय नमो नमः || ५ || 
यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः | 
यो गुरुः सर्वदेवानां यकाराय नमो नमः || ६ || 
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ | 
शिवलोकमवाप्नोति शिवेन सह मोदते || ७ || 
|| इति श्री रुद्रयामले उमामहेश्वर संवादे शिवषडक्षर स्तोत्रं सम्पूर्णम् ||   
Tags:
Stotra
