शिव रक्षा स्तोत्रः | Shiv Raksha Stotra |

 

शिव रक्षा स्तोत्रः 

शिव रक्षा स्तोत्रः 


विनियोगः 

ॐ अस्य श्री शिव रक्षा स्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः, श्रीसदाशिवो देवता, 
अनुष्टुप् छन्दः, श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः | 

चरितं देवदेवस्य महादेवस्य पावनम् | 
अपारं परमोदारं चतुर्वर्गस्य साधनम् || १ || 

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् | 
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः || २ || 

गङ्गाधरः शिरः पातु भालमर्धेन्दुशेखरः | 
नयने मदनध्वंसी कर्णौ सर्पविभूषणः || ३ || 

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः | 
जिह्वां वागीश्वरः पातु कन्धरां शितिकन्धरः || ४ || 

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः | 
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् || ५ || 

हृदयं शङ्करः पातु जठरं गिरिजापतिः | 
नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः || ६ || 

सक्थिनी पातु दीनार्तशरणागततवत्सलः | 
ऊरु महेश्वरः पातु जानुनी जगदीश्वरः || ७ || 

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः | 
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः || ८ || 

एतां शिवबलोपेतां रक्षां यः सुकृति पठेत् | 
स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात् || ९ || 

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये | 
दूरदाशु पलायन्ते शिवनामाभिरक्षणात् || १० || 

अभयङ्करनामेदं कवचं पार्वतीपतेः | 
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् || ११ || 

इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् | 
प्रातरुत्थाय योगिन्द्रो याज्ञवल्क्यस्तथाऽलिखत् || १२ || 

|| इति श्री याज्ञवल्क्यप्रोक्तं शिव रक्षास्तोत्रं सम्पूर्णा ||       
karmkandbyanandpathak

नमस्ते मेरा नाम आनंद कुमार हर्षद भाई पाठक है । मैंने संस्कृत पाठशाला में अभ्यास कर (B.A-M.A) शास्त्री - आचार्य की पदवी प्राप्त की हुईं है । ।। मेरा परिचय ।। आनंद पाठक (आचार्य) ( साहित्याचार्य ) ब्रह्मरत्न अवार्ड विजेता (2015) B.a-M.a ( शास्त्री - आचार्य ) कर्मकांड भूषण - कर्मकांड विशारद ज्योतिष भूषण - ज्योतिष विशारद

Post a Comment

Previous Post Next Post